SearchBrowseAboutContactDonate
Page Preview
Page 391
Loading...
Download File
Download File
Page Text
________________ RAMECONDSAUR किंपुरुषाणां वा महोरगाणां वा गन्धर्वाणां वा, वाशब्दा: सर्वेऽपि विकल्पार्थाः, किंनरादयो व्यन्तरविशेषाः, तेषां कथम्भूतानाम् ? | इत्याह-'भद्रशालवनगतानां वा' इत्यादि, तत्र मेरो: समन्ततो भूमौ भद्रशालवनं प्रथममेखलायां नन्दनवनं शिरसि चूलिकायाः पाश्र्वेषु सर्वत: पण्डकवनं 'महाहिमवंतमलयमन्दरगिरिगुहासमन्नागयाण' इति महाहिमवान्-हैमवतक्षेत्रस्योत्तरतः सीमाकारी वर्षधरपर्वतः, उपलक्षणं शेषवर्षधरपर्वतानां, मलयपर्वतस्य मन्दरगिरेश्च-मेरुपर्वतस्य च गुहा समन्वागतानां, वाशब्दा विकल्पार्थाः, एतेषु हि स्थानेष प्रायः किंनरादयः प्रमुदिता भवन्ति तत एतेषामुपादानम् , 'एगतो सहियाणं'ति एकस्मिन् स्थाने सहिताना-समुदितानां 'समुहागयाण'ति परस्परसंमुखागताना-संमुखं स्थितानां, नैकोऽपि कस्यापि पृष्ठं दत्त्वा स्थित इत्यर्थः, पृष्ठदाने हर्षविधातोत्पत्तेः, तथा 'समुविहाणं' सम्यक् परस्परानाबाधया उपविष्टा: समुपविष्टास्तेषां समुपविष्टानां, तथा 'संनिविट्ठाण'मिति सम्यक् स्वशरीरानाबाधया न तु विषमसंस्थानेन निविष्टाः संनिविष्टास्तेषां, 'पमुइयपक्कीलियाणं'ति प्रमुदिताः-प्रहर्ष गताः प्रक्रीडिता:-क्रीडितुमारब्धवन्तस्ततो विशेषणसमासस्तेषां, तथा गीते रतियेषां ते गीतरतयो गन्धर्व-नाट्यादि तत्र हर्षितमनसो गन्धर्वहर्षितमनसस्तत: पूर्वपदेन | विशेषणसमासस्तेषां गद्यादिभेदादष्टविधं गेयं, तत्र गद्यं यत्र स्वरसञ्चारेण गद्यं गीयते, यत्र तु पद्यं वृत्तादि गीयते तत्पद्यं, यत्र | कथिकादि गीयते तत्कथ्य, पदबद्धं यदेकाक्षरादि यथा ते ते इत्यादि, पादबद्धं यद् वृत्तादिचतुर्भागमात्रे पदे बद्धम् , 'उक्खित्ताय'-| मिति उक्षिप्तकं प्रथमतः समारभ्यमाणं, दीर्घत्वं ककारात्पूर्व प्राकृतत्वात् , एवमुत्तरत्रापि द्रष्टव्यं, 'प्रवृत्तकं' प्रथमसमारम्भादूर्द्धमाक्षे. पपूर्वकप्रवर्त्तमानं 'मंदाय'मिति मन्दकं मध्यभागे सकलमूर्छनादिगुणोपेतं मन्दं मन्दं संचरन , तथा 'रोइयावसाणं ति रोचितंसम्यग्भावितमवसानं यस्य तद् रोचितावसानं, शनैः शनैः प्रक्षिप्यमाणस्वरं यस्य गेयस्यावसानं तद् रोचितावसानमिति भावः, तथा Jain Education in For Private & Personel Use Only R Mr.jainelibrary.org
SR No.600089
Book TitleJivajivabhigamopanga Sutra
Original Sutra AuthorChaturdash Purvadhar
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages938
LanguageSanskrit
ClassificationManuscript & agam_jivajivabhigam
File Size20 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy