________________
श्रीजीवा- विशेषः शङ्खचन्द्रकुमुदोदकरजोदधिघनक्षीरक्षीरपूरक्रोच्चावलिहारावलिहंसावलिबलाकावलय: प्रतीता: 'चन्द्रावली' तडाकादिषु३ प्रतिपत्तौ जीवाभि जलमध्यप्रतिबिम्बितचन्द्रपतिः 'सारइयबलाहगेइ वा' इति शारदिक:-शरत्कालभात्री बलाहको-मेघः 'धंतधोयरुप्पपट्टेइ वे'ति, मनुष्या० मलयगि- ध्मात:-अग्निसंपर्केण निर्मलीकृतो धौतो-भूतिखरण्टितहस्तसन्मार्जनेनातिनिशितीकृतो यो रूप्यपट्टो-रजतपत्रं स ध्मातधौतरूप्यपट्टः, वनखण्डा. रीयावृत्तिः। अन्ये तु व्याचक्षते-ध्मातेन-अग्निसंयोगेन यो धौत:-शोधितो रूप्यपट्टः स ध्मातरूप्यपट्टः, शालिपिष्टराशि:-शालिक्षोदपुञ्जः धि०
कुन्दपुष्पराशि: कुमुदराशिश्च प्रतीतः, 'सुक्कछेवाडियाइ वा' इति छेवाडी नाम-वल्लादिफलिका, सा च कचिद्देशविशेषे शुष्का ॥१९१॥ " सती शुक्ला भवति ततस्तदुपादानं, 'पेहुणमिंजियाइ वा' इति पेहुणं-मयूरपिच्छं तन्मध्यवर्तिनी मिजा पेहुणमिञ्जिका सा चाति- सू०१२६
शुक्लेति तदुपन्यासः, बिसं-पद्मिनीकन्दः मृणालं-पद्मतन्तुः, गजदन्तलवङ्गदलपुण्डरीकदलश्वेतकणवीरश्वेतबन्धुजीवाः प्रतीताः, |'भवेयारूवे' इत्यादि प्राग्वत् । तदेवमुक्तं वर्णस्वरूपं, सम्प्रति गन्धस्वरूपप्रतिपादनार्थमाह-'तेसि णं मणीणं तणाण य' इत्यादि, तेषां मणीनां तृणानां च कीदृशो गन्धः प्रज्ञप्तः ?, भगवानाह–से जहा नाम ए' इत्यादि, प्राकृतत्वात् 'से' इति बहुवचनार्थः, ते यथा नाम गन्धा अभिनि:अवन्तीति सम्बन्धः, कोष्ठं-गन्धद्रव्यं तस्य पुटाः कोष्टपुटास्तेषां, वाशब्दाः सर्वत्रापि समुच्चये, इहैकस्य पुटस्य न तादृशो गन्ध आयाति द्रव्यस्याल्पत्वात् ततो बहुवचनं, तगरमपि गन्धद्रव्यम् , 'एलाः' प्रतीताः 'चोयगं' गन्धद्रव्यं चम्प
कदमनककुङ्कुमचन्दनोशीरमरुवकजातीयूथिकामल्लिकास्नानमल्लिकाकेतकीपाटलानवमालिकावासकर्पूराणि प्रतीतानि नवरमुशीरं-वीरहैणीमूलं स्नानमल्लिका-मानयोग्यो मल्लिकाविशेष: एतेषामनुवाते-आघ्रायकविवक्षितपुरुषाणामनुकूले वाते वाति सति 'उद्भिद्यमा-NI॥१९॥
नानाम्' उद्घाट्यमानानां, चशब्दः सर्वत्रापि समुच्चये, 'निर्भिद्यमानानां' नितरां-अतिशयेन भिद्यमानानां 'कोट्टिजमाणाण वा'
Jain Education in
IR
For Private 8 Personal Use Only
&N
ainelibrary.org