________________
Jain Education Inter
मतिरक्तं भवति अर्द्धमतिकृष्णं ततो गुञ्जार्द्धग्रहणं, जपाकुसुमकिंशुककुसुमपारिजातकुसुमजा त्यहिङ्गुलका:- प्रतीताः 'शिलाप्रवाल' प्रवालनामा रत्नविशेष: प्रवालाङ्कुरः तस्यैव रत्नविशेषस्य मवालाभिधस्याङ्कुरः, स हि प्रथमोद्गतत्वेनात्यन्तरक्तो भवति ततस्तदुपादानं, लोहिताक्षमणिर्नाम रत्नविशेषः, लाक्षारसकृमिरागरक्तकम्बलचीन पिष्टराशि रक्तोत्पल रक्ताशोक रक्तकणवीररक्तबन्धुजीवाः प्रतीताः 'भवे एयारूवे' इत्यादि प्राग्वत् ॥ ' तत्थ ण'मित्यादि, तत्र तेषां मणीनां तृणानां च मध्ये ये हरिद्रा मणयस्तृणानि च तेषामयमेतद्रूपो 'वर्णावासः' वर्णकविशेषः प्रज्ञप्तः, तद्यथा - ' से जहा नाम ए' इत्यादि, स यथा नाम - चम्पकः सामान्यत: सुवर्णचम्पको वृक्ष: 'च|म्पकच्छली' सुवर्णचम्पकत्वक 'चम्पकभेदः' सुवर्णचम्पकच्छेदः 'हरिद्रा' प्रतीता 'हरिद्राभेदः' हरिद्राच्छेदः 'हरिद्रागुलिका' | हरिद्रासारनिर्वर्त्तिता गुलिका 'हरितालिका' पृथ्वीविकाररूपा प्रतीता 'हरितालिकाभेदः' हरितालिकाच्छेदः 'हरितालिका गुलिका' हरितालिकासारनिर्वर्त्तिता गुटिका 'चिकुरः' रागद्रव्यविशेष: 'चिकुराङ्गरागः' चिकुरसंयोगनिमित्तो वस्त्रादौ रागः, वरकनकस्यजायसुवर्णस्य य: कपपट्टके निघर्ष: स वरकनकनिघर्ष:, वरपुरुषो - वासुदेवस्तस्य वसनं वरपुरुपवसनं तद्धि किल पीतमेव भवतीति तदुपादानम्, अ ( स ) लकी कुसुमं लोकतोऽवसेयं 'चम्पककुसुम' सुवर्णचम्पककुसुमं 'कूष्माण्डीकुसुमं पुष्पफलीकुसुमं कोरण्टकःपुष्पजातिविशेषस्तस्य दाम कोरण्टकदाम तडवडा आउली तस्याः कुसुमं तडवडाकुसुमं घोपातकीकुसुमं सुवर्णयूथिकाकुसुमं च प्रतीतं | सुहरिण्यका - वनस्पतिविशेषस्तस्याः कुसुमं सुहरिण्यकाकुसुमं बीयको वृक्षः प्रतीतस्तस्य कुसुमं वीयककुसुमं पीताशोकपीतकणवीरपीतवन्धुजीवाः प्रतीताः 'भवे एयारूवे' इत्यादि प्राग्वत् ॥ ' तत्थ ण' मित्यादि, तत्र तेषां मणीनां तृणानां च मध्ये ये ते शुक्ला मणयस्तृणानि च तेपामयमेतद्रूपो वर्णावासः प्रज्ञप्तः, तद्यथा - ' से जहा नाम ए' इत्यादि, स यथा नाम - 'अङ्कः' रत्न
For Private & Personal Use Only
ainelibrary.org