SearchBrowseAboutContactDonate
Page Preview
Page 387
Loading...
Download File
Download File
Page Text
________________ इति, इह पुटैः परिमितानि यानि कोष्टादिगन्धद्रव्याणि तान्यपि परिमेये परिमाणोपचारात्कोष्टपुटानीत्युच्यन्ते तेषां 'कुट्टयमानानाम्' उदूखले कुट्टयमानानां 'रुविजमाणाण वा' इति श्लक्ष्णखण्डीक्रियमाणानाम् , एतच विशेषणद्वयं कोष्ठादिद्रव्याणामवसेयं, तेषामेव प्रायः कुट्टनश्लक्ष्णखण्डीकरणसम्भवात् , न तु यूथिकादीनाम् , 'उक्किरिजमाणाण वा' इति क्षुरिकादिभिः कोष्ठादिपुटानां कोष्टादिद्रव्याणां वा उत्कीर्यमाणानां 'विक्खरिजमाणाण वा' इति 'विकीर्यमाणानाम्' इतस्ततो विप्रकीर्यमाणानां 'परिभुजमाणाण वा' परिभोगायोपभुज्यमानानां, कचित्पाठः 'परिभाएजमाणाण वा' इति, तत्र 'परिभाज्यमानानां' पार्श्ववतिभ्यो | मनाग २ दीयमानानां 'भंडाओ भंडं साहरिजमाणाण वा' इति 'भाण्डात्' स्थानादेकस्माद् अन्यद् भाण्डं-भाजनान्तरं संहियमाणानाम् 'उदाराः' स्फारा:, ते चामनोज्ञा अपि स्युरत आह-'मनोज्ञाः' मनोऽनुकूला:, तञ्च मनोज्ञत्वं कुतः ? इत्याह-'मनोहराः' मनो हरन्ति-आत्मवशं नयन्तीति मनोहराः, यतस्ततो मनोहरत्वं कुत: ? इत्याह-वाणमनोनितिकरा:, एवंभूताः 'सर्वतः'। सर्वासु दिक्षु 'समन्ततः' सामस्स्येन गन्धाः 'अभिनिःस्रवन्ति' जिघ्रतामभिमुखं निस्सरन्ति, एवमुक्ते शिष्यः पृच्छति-'भवे ए. यारूवे' इत्यादि प्राग्वत् ॥ तेषां मणीनां तृणानां च कीदृशः स्पर्शः प्रज्ञप्तः ?, भगवानाह-गौतम ! 'से जहा नाम ए' इत्यादि, तद्यथा-'अजिनक' चर्ममयं वस्त्रं रूतं च प्रतीतं 'वरः' वनस्पतिविशेषः 'नवनीत' म्रक्षणं हंसगर्भतूली शिरीषकुसुमनिचयश्च प्रतीतः 'बालकुमुदपत्तरासीइ वे'ति बालानि-अचिरकालजातानि यानि कुमुदपत्राणि तेषां राशिर्बालकुंमुदपत्रराशिः, कचित् |बालकुसुमपत्रराशिरिति पाठः, 'भवे एयारूवे' इत्यादि प्राग्वत् ॥ 'तेसि णं भंते !' इत्यादि, तेषां भदन्त ! तृणानां पूर्वापरदक्षिणोत्तरागतैर्वातैः 'मन्दायं मन्दाय'मिति मन्द मन्दम् 'एजितानां' कम्पिताना 'व्येजिताना' विशेषत: कम्पितानाम् , एत-| For Private Personal Use Only M.jainelibrary.org Jain Education in
SR No.600089
Book TitleJivajivabhigamopanga Sutra
Original Sutra AuthorChaturdash Purvadhar
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages938
LanguageSanskrit
ClassificationManuscript & agam_jivajivabhigam
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy