SearchBrowseAboutContactDonate
Page Preview
Page 382
Loading...
Download File
Download File
Page Text
________________ श्रीजीवाजीवाभि० मलयगि रीयावृत्तिः ॥ १८९ ॥ Jain Education Int मध्यक्षामं भवति न समतलं तथारूपतडाकासम्भवात् अतः शङ्कुग्रहणं, विततं विततीकृतं ताडितमिति भाव:, यथाऽत्यन्तं बहुसमं भवति तथा तस्यापि वनपण्डस्यान्तर्वहुसमो भूमिभागः, पुनः कथम्भूतः ? इत्याह- 'नाणा विहपंचवन्नेहिं मणीहिं तणेहि य उवसोभिए' इति योगः, नानाविधा - जातिभेदान्नानाप्रकारा ये पञ्चवर्णा मणयस्तृणानि च तैरुपशोभितः, कथम्भूतैर्मणिभिः ? इत्याह - 'आवडे' त्यादि, आवर्तादीनि मणीनां लक्षणानि, तत्रावर्त्त: प्रतीत एकस्यावर्त्तस्य प्रत्यभिमुख आवर्त्तः प्रत्यावर्त्तः श्रेणिः - तथाविधविन्दुजातादेः पङ्किः तस्याश्च श्रेणेर्या विनिर्गताऽन्या श्रेणिः सा प्रश्रेणिः स्वस्तिकः प्रतीतः सौवस्तिकपुष्पमाणवी - लक्षणविशेषौ लोकाप्रत्येतव्यौ वर्द्धमानकं - शरावसंपुढं मत्स्यकाण्डकमकराण्डके- प्रतीते 'जारमारेति लक्षणविशेषौ सम्यग्मणिलक्षणवेदिनो लोकाद्वेदितव्यौ, पुष्पावलिपद्मपत्रसागरतरङ्गवासन्तीलतापद्मलताः प्रतीतास्तासां भक्त्या - विच्छित्त्या चित्रम् - आलेखो येषु ते आवर्त्तप्रत्यावर्त्तश्रे णिप्रश्रेणिस्वस्तिक सौवस्तिकपुष्पमाणववर्धमानकमत्स्याण्डकमकराण्डकजारमारपुष्पावलिपद्मपत्र सागरतरङ्गवासन्तीपद्मलताभक्तिचित्रास्तै:, किमुक्तं भवति ? - आवर्त्तादिलक्षणोपेतैः, तथा सच्छायैः सती - शोभना प्रभा - कान्तिर्येषां ते सत्प्रभास्तै: 'समरीएहिं 'ति समरीचिकैः- वहिर्विनिर्गत किरणजालसहितैः 'सोद्योतैः' वहिर्व्यवस्थितप्रत्यासन्नवस्तु स्तोमप्रकाशकरोद्योतसहितैः एवंभूतैर्नानाजातीयैः पञ्चवर्णैर्मणिभिस्तृणैश्चोपशोभितः, तानेव पञ्च वर्णानाह - 'तंजहा कण्हे' इत्यादि ॥ ' तत्थ ण' मित्यादि, तत्र तेषां पञ्चवर्णानां मणीनां तृणानां च मध्ये णमिति वाक्यालङ्कारे ये ते कृष्णा मणयस्तृणानि च ये इत्येव सिद्धे ये ते इति वचनं भाषाक्रमार्थ, तेषां णमिति पूर्ववत् 'अयम्' अनन्तरमुद्दिश्यमानः 'एतद्रूपः' अनन्तरमेव वक्ष्यमाणस्वरूपः 'वर्णावासः' वर्णकनिवेश: प्रज्ञतः, तद्यथा - ' से जहा नाम ए' इत्यादि, स यथा नाम - 'जीमूत' इति 'जीमूतः' बलाहकः, स चेह प्रावृप्रारम्भसमये जलभृतो वेदितव्यः, For Private & Personal Use Only ३ प्रतिपत्तौ मनुष्या० वनखण्डाधि० उद्देशः १ सू० १२६ ॥ १८९ ॥ jainelibrary.org
SR No.600089
Book TitleJivajivabhigamopanga Sutra
Original Sutra AuthorChaturdash Purvadhar
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages938
LanguageSanskrit
ClassificationManuscript & agam_jivajivabhigam
File Size20 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy