SearchBrowseAboutContactDonate
Page Preview
Page 377
Loading...
Download File
Download File
Page Text
________________ विनषण्डोऽवभासते इति, तथा एते कृष्णनीलहरितवर्णा यथा (तः) स्वस्मिन् रूपेऽत्यर्थमुत्कटा: स्निग्धा भण्यन्ते तीवाश्च ततस्तद्योगाद्वनख-3 |ण्डोऽपि स्निग्धस्तीत्रश्चोक्तः, न चैतदुपचारमात्रं, किन्तु तथा प्रतिभासोऽपि तत उक्तं स्निग्धावभासस्तीत्रावभास इति, इहावभासो भ्रान्तोऽपि भवति यथा मरुमरीचिकासु जलावभासः ततो नावभासमात्रोपदर्शनेन यथाऽवस्थितं वस्तुस्वरूपमुक्तं वर्णितं भवति किन्तु यथास्वरूपप्रतिपादनेन ततः कृष्णलादीनां तथास्वरूपप्रतिपादनार्थमनुवादपुरस्सरं विशेषणान्तरमाह-'किण्हे किण्हच्छाये' इत्यादि, कृष्णो वनखण्डः, कुत: ? इत्याह-कृष्णच्छायः, 'निमित्तकारणहेतुषु सर्वासां विभक्तीनां प्रायो दर्शन मितिवचनाद्धेतौ प्रथमा, ततोऽकायमर्थ:-यस्मात् कृष्णा छाया-आकारः सर्वा विसंवादितया तस्य तस्मात्कृष्णः, एतदुक्तं भवति-सर्वाविसंवादितया तत्र कृष्ण आकार उपलभ्यते, न च भ्रान्तावभाससंपादितसत्ताकः सर्वाविसंवादी भवति, ततस्तत्त्ववृत्त्या स कृष्णो न भ्रान्तावभासमात्रव्यवस्थापित इति, | एवं नीलो नीलच्छाय इत्याद्यपि भावनीयं, नवरं शीत: शीतच्छाय इत्यत्र छायाशब्द आतपप्रतिपक्षवस्तुवाची द्रष्टव्यः, 'घणकडियइच्छाए' इति इह शरीरस्य मध्यभागे कटिस्ततोऽन्यस्यापि मध्यभागः कटिरिव कटिरित्युच्यते, कटिस्तटमिव कटितटं घना-अन्यान्यशाखाप्रशाखानुप्रवेशतो निविडा कटितटे-मध्यभागे छाया यस्य स घनकटितटच्छाय:, मध्यभागे निविडतरच्छाय इत्यर्थः, कचिपाठः 'घनकडियकडच्छाए' इति, तत्रायमर्थ:-कटः सनातोऽस्येति कटितः कटान्तरेणोपरि आवृत इत्यर्थः कटितश्चासौ कटश्च कटितकट: घना-निविडा कटितकटस्येवाधोभूमौ छाया यस्य स घनकटितकटच्छाय: अत एव रम्यो-रमणीयः, तथा महान्-जल भारावनतः प्रावृट्कालभावी मेघनिकुरम्बो-मेघसमूहस्तं भूतो-गुणैः प्राप्तो महामेघनिकुरम्बभूतः महामेघवृन्दोपम इत्यर्थः । 'ते णं जी०च०३० पायवा' इत्यादि, 'ते' वनपण्डान्तर्गता: पादपा 'मुलवन्तः' मुलानि प्रभूतानि दूरावगाढानि च सन्त्येषामिति मूलवन्तः, कन्द एपा तय रम्वभूतः महामेघव मूलानि प्रभूतानि Jain Educh an inte For Private & Personal Use Only JAjainelibrary.org
SR No.600089
Book TitleJivajivabhigamopanga Sutra
Original Sutra AuthorChaturdash Purvadhar
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages938
LanguageSanskrit
ClassificationManuscript & agam_jivajivabhigam
File Size20 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy