________________
श्रीजीवाजीवाभि०
मलयगिरीयावृत्तिः
॥ १८७ ॥
Jain Education Int
मस्तीति कन्दवन्तः, एवं स्कन्धवन्तस्त्वग्वन्तः शालावन्तः प्रवालवन्तः पत्रवन्तः पुष्पवन्तः फलवन्तो बीजवन्त इत्यपि भावनीयं, तत्र मूलानि - प्रसिद्धानि यानि कन्दस्याधः प्रसरन्ति कन्दास्तेषां मूलानामुपरिवर्त्तिनस्तेऽपि प्रतीताः स्कन्धः - स्थुडं यतो मूलशाखाः प्रभवन्ति, त्वक् छल्ली शाला- शाखा प्रवाल:- पल्लवाङ्कुरः पत्रपुष्पफलबीजानि सुप्रसिद्धानि, सर्वत्रातिशायने क्वचिद्भूम्नि वा मतुप्प्रत्ययः, 'अणुपुव्वसुजाइरुइलवट्टभाव परिणया' इति आनुपूर्व्या-मूलादिपरिपाट्या सुष्ठु जाता आनुपूर्वी सुजाता रुचिला :- स्निग्धतया देदीप्यमानच्छविमन्तः, तथा वृत्तभावेन परिणता वृत्तभावपरिणताः किमुक्तं भवति ?- एवं नाम सर्वासु दिक्षु विदिक्षु च शाखाभिः प्रशाखाभिश्च प्रसृता यथा वर्चुला : संजाता इति, आनुपूर्वी सुजाताश्च ते रुचिराश्च ते च ते वृत्तभावपरिणताच आनुपूर्वी सुजातरुचिरवृत्तभावपरिणताः, तथा ते पादपाः प्रत्येकमेकस्कन्धाः, ( समासान्तइन् ) प्राकृते वाऽस्य स्त्रीत्वमिति 'एगखंधी' इति पाठः, तथाऽनेकाभिः शाखाभिः प्रशाखाभिश्च मध्यभागे विटपो-विस्तारो येषां तेऽनेकशाखा प्रशाखाविटपा:, तथा तिर्यग्वाहुद्वयप्रसारण प्रमाणो व्यामः अनेकैर्नरव्यामैः - पुरुष - व्यामैः सुप्रसारितैरग्राह्यः - अप्रमेयो घनो - निविडो विपुलो - विस्तीर्णः स्कन्धो येषां ते अनेकनरव्यामसुप्रसारिताग्राह्यघनविपुलवृत्तस्कन्धाः, तथाऽच्छिद्राणि पत्राणि येषां ते अच्छिद्रपत्राः किमुक्तं भवति ? न तेषां पत्रेषु वातदोषतः कालदोषतो वा गडरिकादिरीतिरुपजायते, न तेषु पत्रेषु छिद्राणि भवन्तीत्यच्छिद्रपत्राः, अथवा एवं नामान्योऽन्यं शाखा प्रशाखानुप्रवेशात्पत्राणि पत्राणामुपरि जा* तानि येन मनागप्यपान्तरालरूपं छिद्रं नोपलक्ष्यत इति, तथा चाह - 'अविरलपत्ता' इति, अत्र हेतौ प्रथमा ततोऽयमर्थः- यतोऽवि - ४ रलपत्रा अतोऽच्छिद्रपन्नाः, अबिरलपत्रा अपि कुत: ? इत्याह- 'अवातीनपत्राः' वातीनानि वातोपहतानि वातेन पातितानीत्यर्थः न वातीनानि अवातीनानि पत्राणि येषां ते तथा, किमुक्तं भवति ? - न तत्र प्रबलो बात: खरपरुषो वाति येन पत्राणि त्रुटिला भूमौ
॥ १८७ ॥
For Private & Personal Use Only
३ प्रतिपत्तौ
मनुष्या० वनखण्डा
धि०
उद्देशः १
सू० १२६
jainelibrary.org