________________
4907
श्रीजीवा- पाणिदिए णं भंते ! सिंठाणसंठिए पन्नत्ते ?, गोयमा! अइमुत्तसंठाणसंठिए पन्नत्ते, जिभिदिए णं भंते ! किंसंठाणसंठिए पन्नत्ते, प्रतिपत्तौ जीवाभिगोयमा! खुरप्पसंठाणसंठिए पन्नत्ते, फासिदिए णं भंते ! किंसंठाणसंठिए पण्णत्ते ?, गोयमा! नाणासंठाणसंठिए पन्नत्ते ॥” इति, इह | सूक्ष्मपृमलयगि- स्पर्शनेन्द्रियनिवृत्तेः प्रायो न बाह्याभ्यन्तरभेदः, तत्त्वार्थमूलटीकायामनभ्युपगमात् , उपकरणं नाम खड्गस्थानीयाया बाह्यनिर्वृत्तेर्या | थ्वीकाया रीयावृत्तिःला खड्गधारास्थानीया स्वच्छतरपुद्गलसमूहात्मिकाऽभ्यन्तरा निर्वृत्तिस्तस्याः शक्तिविशेषः, इदं चोपकरणरूपं द्रव्येन्द्रियमान्तरनिर्वृत्तेः कथश्चि- सू०१३
दर्थान्तरं, शक्तिशक्तिमतोः कथञ्चिद्भेदात् , कथञ्चिद्रेदश्च सत्यामपि तस्यामान्तरनिर्वृत्तौ द्रव्यादिनोपकरणस्योपघातसम्भवात् , तथाहि ॥१६॥
-सत्यामपि कदम्बपुष्पाद्याकृतिरूपायामान्तरायां निवृत्ती महाकठोरतरघनगर्जितादिना शक्त्युपघाते सति न परिच्छेत्तुमीशते जन्तवः ।
शब्दादिकमिति, भावेन्द्रियमपि द्विधा-लब्धिरुपयोगश्च, तत्र लब्धिः श्रोत्रेन्द्रियादिविषयस्तदावरणक्षयोपशमः, उपयोगः स्वस्वविषये || दा लब्ध्यनुसारेणासन: परिच्छेदव्यापारः, तत्र यद्यपि द्रव्यरूपं भावरूपं चेत्थमिन्द्रियमनेकप्रकारं तथाऽपीह बाह्यनिर्वृत्तिरूपमिन्द्रियं | पृष्टमवगन्तव्यं, तदेवाधिकृत्य व्यवहारप्रवृत्तेः, तथाहि-बकुलादयः पञ्चेन्द्रिया इव भावेन्द्रियपञ्चकविज्ञानसमन्विता अनुमानतः प्रतीयन्ते तथाऽपि न ते पञ्चेन्द्रिया इति व्यवहियन्ते, बाह्येन्द्रियपश्चकासम्भवात् , उक्तं च-"पंचेंदिओ उ बउलो नरो व्व सव्वविसओवलंभाओ। तहकि न भण्णइ पंचिंदिउ त्ति बज्झिदियाभावा ॥१॥” ततो द्रव्येन्द्रियमधिकृत्य निर्वचनसूत्रमाह-'गोयमे'त्यादि
सुगमम् ॥ गतमिन्द्रियद्वारमधुना समुद्घातद्वार, तत्र समुद्घाता: सप्त, तद्यथा-वेदनासमुद्घात: १ कषायसमुद्घात: २ मारणसमुद्घातः 1३ वैक्रियसमुद्घातः ४ तैजससमुद्घात: ५ आहारकसमुद्घात; ६ केवलिसमुद्घातश्च ७, तत्र वेदनायाः समुद्घातो वेदनासमुद्घात:,
१ पञ्चेन्द्रिय एव बकुलो नर इव सर्वविषयोपलम्भात् । तथापि न भण्यते पञ्चेन्द्रिय इति वायेन्द्रियाभावात् ॥१॥
॥१६॥
JainEducationi
For Private
Personal Use Only