________________
Jain Education In
द्रव्यसाचिव्यात्परिणामो य आत्मनः । स्फटिकस्येव तत्रायं, लेश्याशब्दः प्रवर्त्तते ॥ १ ॥ " सा च षोढा, तद्यथा - कृष्णलेश्या नील| लेश्या कापोतलेश्या तेजोलेश्या पद्मलेश्या शुकुलेश्या च, आसां च स्वरूपं जम्बूफलखाद् कषट्पुरुषदृष्टान्तेनैवावसातव्यम् — “पंथाओ परिभट्ठा छप्पुरिसा अडविमज्झयारंमि । जंबूतरुस्स हेट्ठा परोप्परं ते विचितेति ॥ १ ॥ निम्मूलखंधसाला गोच्छे पक्के य पडियस डियाई । जह एएसिं भावा तह लेसाओवि नायव्वा ॥ २ ॥ " अमीषां च सूक्ष्मपृथिवीकायिकानामतिसंक्लिष्ट परिणामत्वाद्देवेभ्य: सूक्ष्मेष्वनुत्पादाचाद्या एव तिस्रः कृष्णनीलकापोतरूपा लेश्याः, न शेषा इति ॥ गतं लेश्याद्वारमिदानीमिन्द्रियद्वारमाह — 'तेसिण 'मित्यादि इन्द्रियं नाम 'इदु परमैश्वर्ये' 'उदितः' इति नम्, इन्दनादिन्द्रः- आमा सर्वोपलब्धिरूपपरमैश्वर्ययोगात् तस्य लिङ्गं-चिह्नमविनाभावि इन्द्रियम् 'इन्द्रिय' मिति निपातनसूत्राद्रूपनिष्पत्तिः, तत्पञ्चधा, तद्यथा-श्रोत्रेन्द्रियं चक्षुरिन्द्रियं जिह्वेन्द्रियं घ्राणेन्द्रियं स्पर्शनेन्द्रियं च, एकैकमपि द्विधा - द्रव्येन्द्रियं भावेन्द्रियं च द्रव्येन्द्रियं द्विधा - निर्वृत्तिरूपमुपकरणरूपं च तत्र निर्वृत्तिर्नाम प्रतिविशिष्टः संस्थानविशेष:, साऽपि द्विधा - बाह्याभ्यन्तरा च तत्र बाह्या कर्णपर्पटिकादिरूपा, सा च विचित्रा न प्रतिनियतरूपतया निर्देष्टुं शक्यते, तथाहि - मनुष्यस्य श्रोत्रे नेत्रयोरुभयपार्श्वतोभाविनी वावुपरितनश्रवणबन्धापेक्षया समे, वाजिनो नेत्रयोरुपरि तीक्ष्णे चाप्रभागे इत्यादि, अभ्यन्तरा तु निर्वृत्तिः सर्वेषामप्येकरूपा, तामेवाधिकृत्य चामूनि सूत्राणि प्रावर्त्तिषत - "सोईदिए णं भंते! किंसंठाणसंठिए पण्णत्ते ?, गोयमा ! कलंबुयासंठाणसंठिए पन्नत्ते, चक्खिदिए णं भंते! किंसंठाणसंठिए पन्नत्ते १, गोयमा ! मसूरचंदसंठाणसंठिए पन्नत्ते,
१ पथः परिभ्रष्टाः षद् पुरुषा अटवीमध्यभागे । जम्बूतरोरधस्तात् परस्परं ते विचिन्तयन्ति ॥ १ ॥ निर्मूलं स्कन्धं शाखां प्रशाखां गुच्छान् ( छित्वा ) पक्कानि पतितशटितानि ( भक्षयामः । यथैतेषां भावास्तथा लेश्या अपि ज्ञातव्याः ॥ २ ॥
For Private & Personal Use Only
jainelibrary.org