SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ श्रीजीवाजीवाभि० मलय रीयावृत्तिः ॥ १५ ॥ Jain Education Int वक्ष्यमाणलक्षणानि तेषामाद्यानि पञ्च संस्थानानि मसूरचन्द्रकाकारे न संभवन्ति, तल्लक्षणायोगात्, तत इदं मसूरचन्द्रकाकारं संस्थानं हुण्डं प्रतिपत्तव्यं, सर्वत्रासंस्थितत्वरूपस्य तलक्षणस्य योगान्, जीवानां संस्थानान्तराभावाच्च, आह च मूलटीकाकारः - “संस्थानं म सूरचन्द्रकसंस्थितमपि हुण्डं, सर्वत्रासंस्थितत्वेन तल्लक्षणयोगात्, जीवानां संस्थानान्तराभावाचे" ति ॥ गतं संस्थानद्वारमधुना कषायद्वारमाह- 'तेसिणं भंते!' इत्यादि, तेषां भदन्त ! सूक्ष्मपृथ्वी कायिकानां कति कषायाः प्रज्ञप्ताः ?, तत्र कषाया नाम कथ्यन्ते - हिंस्यन्ते परस्परमस्मिन् प्राणिन इति कषः - संसारस्तमयन्ते - गच्छन्त्येभिर्जन्तव इति कषायाः - क्रोधादयः परिणामविशेषाः, तथा चाह - 'गोयमेत्यादि सुगमं, नवरं क्रोधः - अप्रीतिपरिणामः मानो - गर्वपरिणामः माया - निकृतिरूपा लोभो - गालक्षणः, एते च क्रोधादयोमीषां मन्दपरिणामतयाऽनुपदर्शितबाह्यशरीरविकारा एवानाभोगतस्तथा तथा वैचित्र्येण भवन्तः प्रतिपत्तव्याः ॥ गतं कषायद्वारं, सज्ञाद्वारमाह- 'ते सिण' मित्यादि सुगमं, नवरं सञ्ज्ञानं सञ्ज्ञा, सा च द्विधा - ज्ञानरूपाऽनुभवरूपा च तत्र ज्ञानरूपा मतिश्रुतावधिमनः पर्यायकेवलभेदात्पथ्यप्रकारा, तत्र केवलसन्ज्ञा क्षायिकी शेषास्तु क्षायोपशमिक्यः, अनुभवसञ्ज्ञा - स्वकृतासात वेदनीयादिकर्मविपाकोदयसमुत्था, इह प्रयोजनमनुभवसन्ज्ञया, ज्ञानसज्ञायास्तङ्कारेण परिगृहीतत्वात्, तत्राहारसञ्ज्ञा नाम आहाराभिलाषः क्षुद्वेदनीयप्रभवः खल्वासपरिणामविशेषः, एषा चासात वेदनीयोदयादुपजायते, 'भयसज्ञा' भयवेदनीयोदयजनितत्रासपरिणामरूपा, 'परि ग्रहसञ्ज्ञा' लोभविपाकोदयसमुत्थमूर्छापरिणामरूपा, 'मैथुनसज्ञा' वेदोदयजनिता मैथुनाभिलाषः, एताश्चतस्रोऽपि मोहनीयोदयप्रभवाः, एता अपि सूक्ष्मपृथ्वीकायिकानामन्य करूपाः प्रतिपत्तव्याः ॥ गतं सब्ज्ञाद्वारमधुना लेश्याद्वारमाह- 'ते सिण 'मित्यादि सुगमं, नवरं लिश्यति - श्लिष्यते आमा कर्मणा सहानयेति लेश्या - कृष्णादिद्रव्यसाचिव्यादासनः शुभाशुभपरिणामः, उक्तं च - " कृष्णादि For Private & Personal Use Only १ प्रतिपत्तौ सूक्ष्मपुथ्वीकायाः सू० १३ ॥ १५ ॥ jainelibrary.org
SR No.600089
Book TitleJivajivabhigamopanga Sutra
Original Sutra AuthorChaturdash Purvadhar
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages938
LanguageSanskrit
ClassificationManuscript & agam_jivajivabhigam
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy