________________
Jain Education
अधुनाऽवगाहनाद्वारमाह - 'तेसिणं भंते !' इत्यादि सुगमं, नवरं जघन्यपदोत्कृष्टपदयोस्तुल्यश्रुतावपि जघन्यपदादुत्कृष्टपदमधिकमवसातव्यम् ॥ संहननद्वारमाह - तेसिणमित्यादि, तेषां भदन्त ! जीवानां शरीरकाणि किंसंहननानि प्रज्ञप्तानि १, संहननं नामास्थिनिचयरूपं, तच षोढा, तद्यथा-वज्रऋषभनाराचं ऋषभनाराचं नाराचमर्द्धनाराचं कीलिका छेदवर्त्ति च तत्र वज्रं - कीलिका ऋषभः-परि| वेष्टनपट्ट: नाराचस्तूभयतो मर्कटबन्धः ततश्च द्वयोरस्भोरुभयतो मर्कटबन्धेन बद्धयोः पट्टाकृतिं गच्छता तृतीयेनारमा परिवेष्टितयोरुपरि तदस्थित्रयभेदि कीलिकाख्यं वज्रनामकमस्थि यत्र भवति तद्वज्रऋषभनाराचसञ्ज्ञं प्रथमं संहननं १, यत्पुनः कीलिकारहितं संहननं तत् ऋषभनाराचं द्वितीयं संहननं २, तथा यत्रास्भोर्मर्कटबन्ध एव केवलस्तन्नाराचसञ्ज्ञं तृतीयं संहननं ३, यत्र पुनरेकपार्श्वे मर्कटबन्धो द्वितीये च पार्श्वे कीलिका तदर्द्धनाराचं चतुर्थ संहननं ४, तथा यत्रास्थीनि कीलिकामात्रबद्धानि तत्कीलिकाख्यं पश्वमं संहननं ५, तथा यत्रास्थीनि परस्परं छेवेन वर्त्तन्ते न कीलिकामात्रेणापि बन्धस्तत् षष्ठं छेदवर्त्ति, तच प्रायो मनुष्यादीनां नित्यं | स्नेहाभ्यङ्गादिरूपां परिशीलनामपेक्षते ६, इत्थं षोढा संहननसम्भवे संशय: - तेषां शरीराणि किंसंहननानि प्रज्ञप्तानि ? इति, भगवानाह -गौतम ! छेदवर्त्तिसंहननानि प्रज्ञप्तानि, अयमत्राभिप्राय: - यद्यपि सूक्ष्मपृथिवीकायिकानामस्थ्यभावस्तथा ऽप्यौदा रिकशरीरिणामस्ध्यामकेन संहननेन यः शक्तिविशेष उपजायते सोऽप्युपचारात्संहननमिति व्यवहियते, शक्तिविशेषश्चात्यन्तमल्पीयान् सूक्ष्मपृथिवीकायिकानामप्यस्त्यौदारिकशरीरित्वात्, जघन्यश्च शक्तिविशेषश्छेदवर्त्तिसंहननविषय इति तेषामपि छेदवर्त्तिसंहननमुक्तम् ॥ गतं संहननद्वारं, | सम्प्रति संस्थानद्वार माह – 'तेसिणं भंते!' इत्यादि सुगमं, नवरं 'मसूरगचंदसंठिया' इति, मसूरकाख्यस्य - धान्यविशेषस्य यञ्चन्द्राकृति दलं स मसूरकचन्द्रस्तद्वदनुसंस्थितानि मसूरकचंद्रसंस्थितानि, अत्रायं भावार्थ:-इह जीवानां षट् संस्थानानि तानि च समचतुरस्रादीनि
ional
For Private & Personal Use Only
ww.jainelibrary.org