SearchBrowseAboutContactDonate
Page Preview
Page 356
Loading...
Download File
Download File
Page Text
________________ श्रीजीवा- जीवाभि प्रतिपत्तो | देवाधि कारः उद्देशः१ सू०१२३ रीयावृत्तिः ॥१७६ ॥ भावः, एतेन द्वीपसमुद्राणामायामादिपरिमाणं पृष्टं, तथा 'किंसंठिया णं भंते! दीवसमुद्दा' इति किं संस्थितं-संस्थानं येषां ते किं- संस्थिता णमिति पूर्ववद् भदन्त ! द्वीपसमुद्राः प्रज्ञप्ता: ?, अनेन संस्थानं पप्रच्छ, 'किमागारभावपडोयारा णं भंते! दीवसमुद्दा पण्णत्ता' इति आकारभाव:-स्वरूपविशेष: कस्याकारभावस्य प्रत्यवतारो येषां ते किमाकारभावप्रत्यवतारा:, बहुलग्रहणाद्वैयधिकरण्येऽपि समासः, णमिति पूर्ववद्, द्वीपसमुद्राः प्रज्ञप्ता: ?, किं स्वरूपं द्वीपसमुद्राणामिति भावः, अनेन स्वरूपविशेषविषयः प्रश्नः कृतः, भगवानाह-'गोयमें'त्यादि, गौतम! जम्बूद्वीपादयो द्वीपा 'लवणादिकाः' लवणसमुद्रादिकाः समुद्राः, अनेन द्वीपानां समुद्राणां चादिरुक्तः, एतच्चापृष्टमपि भगवता कथितमुत्तरत्रोपयोगित्वात् गुणवते शिष्यायापृष्टमपि कथनीयमिति ख्यापनार्थ च, 'संठाणतो इत्यादि, 'संस्थानतः' संस्थानमाश्रित्य 'एगविहिविहाणा' इति एकविधि-एकप्रकारं विधानं येषां ते एकविधिविधानाः, एकस्वरूपा इति भावः, सर्वेषां वृत्तसंस्थानसंस्थितत्वाद् , 'विस्तारतः' विस्तारमधिकृत्य पुनरनेकविधिविधानाः अनेकविधानि-अनेकप्रकाराणि विधानानि येषां ते तथा, विस्तारमधिकृत्य नानास्वरूपा इत्यर्थः, तदेव नानास्वरूपत्वमुपदर्शयति-'दुगुणादुगुणे पडुप्पाएमाणा २ पवित्थरमाणा' इति, द्विगुणं द्विगुणं यथा भवति एवं प्रत्युत्पद्यमाना गुण्यमाना इत्यर्थः, 'प्रविस्तरन्तः' प्रकर्षेण विस्तारं गच्छन्तः, तथाहि-जम्बूद्वीप एक लक्षं लवणसमुद्रो द्वे लक्षे धातकीखण्डश्चत्वारि लक्षाणीत्यादि, 'ओभासमाणवीचीया' इति अवभासमाना वीचयः-कल्लोला येषां ते अवभासमानवीचयः, इदं विशेषणं समुद्राणां प्रतीतमेव, द्वीपानामपि च वेदितव्यं, तेष्वपि इदनदीतडागादिषु | कल्लोलसम्भवात् , तथा बहुभिरुत्पलपद्मकुमुदनलिनसुभगसौगन्धिकपुण्डरीकमहापुण्डरीकशतपत्रसहस्रपत्रैः 'पप्फुल्ल'त्ति प्रफुल्लैः-विकसितैः 'केसरे'ति केसरोपलक्षितरुपचिता:-उपचितशोभाका बहूत्पलपद्मकुमुदनलिनसुभगसौगन्धिकपुण्डरीकमहापौण्डरीकशतपत्रसह KitKk6-5 का॥१७६॥ Jain Education Index For Private & Personel Use Only ainelibrary.org
SR No.600089
Book TitleJivajivabhigamopanga Sutra
Original Sutra AuthorChaturdash Purvadhar
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages938
LanguageSanskrit
ClassificationManuscript & agam_jivajivabhigam
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy