SearchBrowseAboutContactDonate
Page Preview
Page 321
Loading...
Download File
Download File
Page Text
________________ Jain Education जाव विहरति ॥ कहि णं भंते! दाहिणिल्लाणं असुरकुमारदेवाणं भवणा पुच्छा, एवं जहा ठाणपढ़े जाव चमरे, तत्थ असुरकुमारिंदे असुरकुमारराया परिवसति जाव विहरति ॥ ( सू० ११७) 'से किं त' मित्यादि, अथ के ते देवा: ?, सूरिराह - देवाश्चतुर्विधाः प्रज्ञप्ताः, तद्यथा - भवनवासिनो वानमन्तरा ज्योतिष्का वैमानिकाः, अमीषां च शब्दानां व्युत्पत्तिर्यथा प्रज्ञापनाटीकायां तथा वेदितव्या ॥ 'से किं तमित्यादि, अथ के ते भवनवासिन: ?, सूरिराह - भवनवासिनो दशविधाः प्रज्ञप्ताः, एवं देवानां प्रज्ञापनागतप्रथमप्रज्ञापनाख्यपद इव तावद्भेदो वक्तव्यो यावत्सर्वार्थदेवा इति ॥ सम्प्रति भवनवासिनां देवानां भवनवसनप्रतिपादनार्थमाह- 'कहि णं भंते!' इत्यादि, क भदन्त ! भवनवासिनां देवानां भवनानि प्रज्ञप्तानि ?, क भदन्त ! भवनवासिनो देवाः परिवसन्ति ?, भगवानाह - गौतम ! 'इमीसे ण' मित्यादि, 'अस्याः ' प्रत्यक्षत उपलभ्यमानाया यत्र वयमास्महे रत्नप्रभायाः पृथिव्या: 'अशीत्युत्तरयोजनशतसहस्रवाहल्यायाः' अशीत्युत्तरम् - अशीतिसहस्राधिकं योजनशतसहस्रं बाहुल्यं - पिण्डभावो यस्याः सा तथा, तस्या उपर्युकं योजनसहस्रमवगाह्याधस्तादेकं योजनसहस्रं वर्जयित्वा मध्ये 'अष्टसप्तते' अष्टसप्ततिसहस्राधिके योजनशतसहस्रे, 'अत्र' एतस्मिन् स्थाने भवनवासिनां देवानां सप्त भवनकोटयो द्विसप्ततिर्भवनावासशतसहस्राणि भवन्तीति आख्यातानि मया शेषैश्च तीर्थकुद्भिः, तत्र सप्तकोट्यादिभावनैवं चतुःपष्टिः शतसहस्राणि भवनानामसुर कुमाराणां चतुरशीतिः शतसहस्राणि नागकुमाराणां द्विसप्ततिः शतसहस्राणि सुवर्णकुमाराणां पण्णवतिः शतसहस्राणि वायुकुमाराणां द्वीपकुमारादीनां पण्णां प्रत्येकं पट्सप्ततिः शतसहस्राणि भवनानां ततः सर्वसङ्ख्यया यथोक्तं भवनसङ्ख्यानं भवति । 'ते णं भवणा' इत्यादि, तानि, सूत्रे पुंस्त्वनिर्देश: प्राकृतत्वात्, णमिति वाक्यालङ्कारे भवनानि बहि: 'वृत्तानि' वृत्ताकाराणि अन्तः For Private & Personal Use Only ww.jainelibrary.org
SR No.600089
Book TitleJivajivabhigamopanga Sutra
Original Sutra AuthorChaturdash Purvadhar
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages938
LanguageSanskrit
ClassificationManuscript & agam_jivajivabhigam
File Size20 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy