________________
श्रीजीवा- जीवाभि मलयगि-1 रीयावृत्तिः ॥१५९॥
SOCCASSEMA
समचतुरस्राणि अधस्तलभागेषु पुष्करकर्णिकासंस्थानसंस्थितानि, 'भवणवण्णओ भाणियब्बो जहा ठाणपदे जाव पडिरूवा' प्रतिपत्तौ इति, उक्तप्रकारेण भवनवर्णको भणितव्यो यथा प्रज्ञापनायां द्वितीये स्थानाख्ये पदे, स च तावद् यावत् 'पडिरूवा' इति पदं, स|| देवाधिचैवम्-"उक्किण्णंतरविउलगंभीरखायपरिखा पागारट्टालयकवाडतोरणपडिदुवारदेसभागा जंतसयग्घिमुसलमुसंढिपरिवारिया अजोज्झा कारः | सयाजया सयागुत्ता अडयालकोट्टरइया अडयालकयवणमाला खेमा सिवा किंकरअमरदंडोवरक्खिया लाउल्लोइयमहिया गोसीसस- | उद्देशः १ रसरत्तचंदणदद्दरदिण्णपंचंगुलितला उवचियचंदणकलसा चंदणघडसुकयतोरणपडिदुवारदेसभागा आसत्तोसत्तविउलवट्टवग्धारियम- सू०११७ लदामकलावा पंचवण्णसरसमुकपुष्फपुंजोवयारकलिया कालागुरुपवरकुंदुरुक्कतुरुक्कधूवमघमघेतगंधुदुयाभिरामा सुगन्धवरगंधगंधिया गंधवट्टिभूया अच्छरगणसंघसंविकिण्णा दिव्वतुडियसद्दसंपणदिया सव्वरयणामया अच्छा सण्हा लण्हा घट्टा मट्ठा नीरया निम्मला निप्पंका निकंकडच्छाया सप्पभा समिरीया सउज्जोया पासाईया दरसणिज्जा अभिरूवा पडिरूवा" इति, अस्य व्याख्या-उत्कीर्णमिव उत्कीर्ण अतीव व्यक्तमिति भावः, उत्कीर्णमन्तरं यासां खातपरिखानां ता उत्कीर्णान्तराः किमुक्तं भवति ?-खातानां परिखाणां च स्पष्टवैविक्त्योन्मीलनार्थमपान्तराले महती पाली समस्तीति, खातानि च परिखाश्च खातपरिखाः उत्कीर्णान्तरा विपुलाविस्तीर्णा गम्भीरा-अलब्धमध्यभागाः खातपरिखा येषां भवनानां परितस्तानि उत्कीर्णान्तरविपुलगम्भीरखातपरिखानि, खातपरिखाणां चायं प्रतिविशेष:-परिखा उपरि विशालाऽधः सङ्कुचिता, खातं तूभयत्रापि सममिति, 'पागारहालककवाडपडिदुवारदेसभागा' इति प्रतिभवनं प्राकारेषु अट्टालककपाटतोरणप्रतिद्वाराणि-अट्टालककपाटतोरणप्रतिद्वाररूपा देशभागा-देशविशेषा येषु तानि प्राका- ॥१५९॥ राहालककपाटतोरणप्रतिद्वारदेशभागानि, तत्राहालका:-प्राकारस्योपरि भृत्याश्रयविशेषाः कपाटानि-प्रतोलीद्वारसत्कानि, एतेन प्रतोल्यः
Jan Education
2
For Private Personal use only
Mainelibrary.org