SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ Jain Education In दिकृतो वेदितव्यः, इप्रकापाक इति वा कुम्भकारापाक इति वा कबे कापाक इति वा लोहकाराम्बरीप इति वा, अम्वरी:-कोटकः, यत्रवाडचुही इवेति, यत्रम् - इक्षुपीडनयनं तत्प्रधानः पाटको यत्रपादकः तत्र चुही यत्रेक्षुरसः पच्यते, इत्थम्भूतानि यानि मनुष्यलोके स्थानानि 'तप्तानि' वह्निसंपर्कतस्ततीभूतानि तानि च कानिचिद् अयआकरप्रभृतीनि कदाचिदुष्णस्पर्शमात्राण्यपि संभवन्ति ततो विशेषप्रतिपादनार्थमाह – 'समजोईभूयाइ' प्राकृतत्वात्समशब्दस्य पूर्वनिपातः, 'ज्योतिः तमभूतानि' साक्षादग्निवर्णानि जातानीति भावः, एतदेवोपमया स्पष्टयति- 'फुल्लकिंशुकसमानानि' प्रफुलपलाशकुसुम कल्पानि 'उक्कासहस्साई' इति ये मूलाभितो विवियानिकणाः प्रसर्पन्ति ते उल्का इत्युच्यन्ते तासां सहस्राणि उल्कासहस्राणि मुञ्चन्ति जालासहस्राणि विनिर्मु ञ्चन्ति अङ्गारसहस्राणि प्रविक्षरन्ति 'अन्तरन्त हूयमानानि' अतिशयेन जाज्वल्यमानानि, कचित् 'अंतो अंतो सुहुहुयासणा' इति पाठः, 'अन्तरन्तः सुहुतहुताशनानि' सुष्ठु हुतो हुताशनो येषु तानि तथा तिष्ठन्ति तानि पश्येत् दृष्ट्वा चावगाहेत, अवगाह्य च 'उष्णमपि' नरकोष्णवेदनाजनितं वहि:शरीरस्य परितापमपि प्रविनयेन् नरकगतादुष्णस्पर्शादयआकरादिपूष्णस्पर्शस्यातीव म न्दत्वात् एवं च सुखासिकाभावतस्तृपामपि क्षुधमपि दाहमपि अन्तःशरीरसमुत्थं प्रविनयेत् तथा च सति तृडादिदोषापगमतो निद्रायेत वा प्रचलायेत वा स्मृतिं वा रतिं वा धृतिं वा उपलभेत, ततः शीतः शीतीभूतः सन् 'संकसन् संकसन' संक्रामन् | संक्रामन् सातसौख्यवहुलो विहरेत्, अमीषां पदानामर्थः प्राग्वद्भावनीयः । एतावत्युक्ते भगवान् गौतमः पृच्छति - 'भवे एयारू सिया ?' 'स्यात्' संभाव्यते एतद् यथा भवेद् उष्णवेदनीयेषु नरकेषु एतद्रूपा उष्णवेदना ?, भगवानाह - गौतम ! नायमर्थः समर्थो यदुष्णवेदनीयेषु नरकेषु नैरविका इति, अनन्तरं प्रतिपादितस्वरूपाया उष्णवेदनायाः अनिष्टतरिकामेव अप्रियतरिकामेव अमनोज्ञत For Private & Personal Use Only w.jainelibrary.org
SR No.600089
Book TitleJivajivabhigamopanga Sutra
Original Sutra AuthorChaturdash Purvadhar
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages938
LanguageSanskrit
ClassificationManuscript & agam_jivajivabhigam
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy