SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ CALCOCCAUSAMRACHCSC भवमुरस्यं तच्च तदलं च उरस्यबलं तच्च समन्वागत:-समनुप्राप्त उरस्य बलसमन्वागतः, आन्तरोत्साहवीर्ययुक्त इति भावः, 'तलजमलजुयलबाहू' इति, तलौ-तालवृक्षौ तयोर्यमलयुगलं-समश्रेणीकं युगलं तलयमलयुगलं, तद्वदतिसरलौ पीवरौ च वाहू यस्य स | तलयमलयुगलबाहुः, 'लंघणपवणजवणपमद्दणसमत्धे इति, लचने-अतिक्रमणे प्लवने-मनाक् पृथुतरविक्रमगतिगमने जवनेअतिशीघ्रगतौ प्रमर्दने-कठिनस्यापि वस्तुनश्चर्णनकरणे समर्थः लङ्घनप्लवनजवनप्रमर्दनसमर्थः, कचित् 'लंघणपवणजवणवायाम-18 णसमत्थे' इति पाठस्तत्र व्यायामने-व्यायामकरणे इति व्याख्येयं, 'छेकः' द्वासप्ततिकलापण्डित: 'दक्षः' कार्याणामविलम्बितकारी,31 'प्रष्ठः' वाग्मी 'कुशलः' सभ्यक्रियापरिज्ञानवान् 'मेधावी' परस्पराव्याहतपूर्वापरानुसन्धानदक्षः, अत एव 'निपुणसिप्पोवगए। इति निपुणं यथा भवति एवं शिल्पं-क्रियासु कौशलमुपगतः-प्राप्तो निपुणशिल्पोपगतः, एकं महान्तमयस्पिण्डम् 'उदकवारकसमानं | लघुपानीयघटसमानं गृहीत्वा 'तम्' अयस्पिण्डं तापयित्वा तापयित्वा ततो घनेन कुदृयित्वा कुट्टयित्वा यावदेकाहं वा द्वयहं वा याव-13 हादुकर्पतोऽर्द्धमासं संहन्यान् , ततो णमिति वाक्यालङ्कारे 'तम्' अयस्पिण्डं शीतं, स च शीतो बहिर्मनाग्मात्रेणापि स्यादत आह|'शीतीभूतं' सर्वासना शीतत्वेन परिणतं अयोमयेन संदशकेन गृहीत्वा 'असद्भावस्थापनया' असद्भावकल्पनया नैतदभून न भवति भविष्यति वा केवलमसद्भूतमिदं कल्प्यत इति, उष्णवेदनेषु नरकेपु प्रक्षिपेत, प्रक्षिप्य च स पुरुषो णमिति वाक्यालकारे 'उम्मिसियनिमिसियंतरेण' उन्मिपितनिमिपितान्तरेण यावताऽन्तरेण-यावता व्यवधानेन उन्मेपनिमेपौ क्रियेते तावदन्तरप्रमाणेन कालेनातिक्रान्तेन पुनरपि प्रत्युद्धरिप्यामीतिकृत्वा यावद् द्रष्टुं प्रवर्त्तते तावन् 'प्रवितरमेव' प्रस्फुटितमेव, यदिवा 'प्रविलीनमेव' नवनीत-18 मिव सर्वथा गलितमेव, यदिवा 'प्रविध्वस्तमेव' सर्वथा भस्मसाद्भूतमेव पश्येत्, न पुनः शक्नुयाद् अचिरात्तं अप्रस्फुटितं अविलीनं Jain Education in For Private & Personel Use Only jainelibrary.org
SR No.600089
Book TitleJivajivabhigamopanga Sutra
Original Sutra AuthorChaturdash Purvadhar
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages938
LanguageSanskrit
ClassificationManuscript & agam_jivajivabhigam
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy