SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ श्रीजीवाजीवाभि० मलयगि यावृत्तिः ॥ १२१ ॥ Jain Education Inte 64 भंते !' इत्यादि, उष्णवेदनेषु णमिति पूर्ववत् भदन्त ! नरकेषु नैरयिका: कीशीमुष्णवेदनां प्रत्यनुभवन्तः - प्रत्येकं वेदद्यमाना बिह- ४३ प्रतिपत्तौ रन्ति ?, भगवानाह -- गौतम ! स 'यथानामकः' अनिर्दिष्टनामकः कश्चित् 'कम्मरिदारकः' लोहकारदारकः स्यान् किंविशिष्ट: १ इत्याह- 'तरुणः' प्रबर्द्धमानवया:, आह-दारकः प्रवर्द्धमानवया एव भवति ततः किमनेन विशेषणेन ?, न, आसन्नमृत्योः प्रवर्द्धमानवयस्त्वाभावात् न ह्यासन्नमृत्युः प्रवर्द्धमानवया भवति, न च तस्य विशिष्टसामर्थ्यसम्भव:, आसन्नमृत्युत्वादेव, विशिष्टसामर्थ्यप्र तिपादनार्थचैप आरम्भस्ततोऽर्थवद्विशेषणम्, अन्ये तु व्याचक्षते - इह यद्रव्यं विशिष्टवर्णादिगुणोपेतमभिनवं च तत्तरुणमिति लोके प्रसिद्धं यथा तरुणमिदमश्वत्थपत्रमिति, ततः स कर्मारदारकस्तरुण इति किमुक्तं भवति ? - अभिनवो विशिष्टवर्णादिगुणोपेतःश्चेति, बल - सामर्थ्य तदस्यास्तीति बलवान, तथा युगं-सुपमदुष्पमादिकालः स खेन रूपेण यस्यास्ति न दोषदुष्टः स युगवान, किमुक्तं | भवति ? - कालोपद्रवोऽपि सामर्थ्यविघ्नहेतुः स चास्य नास्तीति प्रतिपत्त्यर्थमेतद्विशेषणं, युवा-यौवनस्थः, युवावस्थायां हि बलातिशय |इत्येतदुपादानम्, 'अप्पायंके' इति अल्पशब्दोऽभाववाची अल्पः सर्वथाऽविद्यमान आतङ्को ज्वरादिर्यस्यासावल्पातङ्कः, 'थिरग्गहत्थे ' स्थिरौ अग्रहस्तौ यस्य स स्थिराग्रहस्तः, 'दढपाणिपायपास पितरोरुपरिणए' इति दृढानि - अतिनिविडचयापन्नानि पाणिपादपार्श्वपृष्ठान्तरोरूणि परिणतानि यस्य स दृढपाणिपादपार्श्वपृष्ठान्तरोरुपरिणतः, सुखादिदर्शनात्पाक्षिको निष्ठान्तस्य परनिपातः, तथा घ नम्-अतिशयेन निचितौ - निविडतरचयमापन्नौ बलिताविव वलितौ वृत्तौ स्कन्धौ यस्य स धननिचितवलितवृत्तस्कन्धः, 'चम्मेङगदुघणमुडियसमाहयनिचिय गायगत्ते' चर्मेष्टकेन द्रुघणेन मुष्टिकया च - मुट्या च समाहत्य ये निचितीकृतगात्रास्ते चर्मेष्टकद्रुघणमुष्टिकसमाहतनिचितगात्रास्तेपामित्र गात्रं यस्य स चर्मेघणमुष्टिकसमाहतनिचितगात्रगात्रः, 'उरस्सबलसमन्नागए' इति उरसि For Private & Personal Use Only श्र उद्देशः २ नारकाणां शीतोष्ण वेदनाः सू० ८९ ॥ १२१ ॥ jainelibrary.org
SR No.600089
Book TitleJivajivabhigamopanga Sutra
Original Sutra AuthorChaturdash Purvadhar
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages938
LanguageSanskrit
ClassificationManuscript & agam_jivajivabhigam
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy