________________
जी० च० २१
Jain Education Int
तथा 'नित्यं' सर्वकालं स्वत एवाग्रेऽपि ' त्रस्ताः' परमाधार्मिक देवपरस्परोदीरितदुःखसंपातभयात्रासमुपपन्नाः, तथा 'नित्यं' सर्वकालं परमाधार्मिकैः परस्परं वा 'त्रासिताः ' त्रासं ग्राहिताः, तथा 'नित्यमुद्विग्नाः' यथोक्तरूप दुःखानुभवतस्तद्गतावासपराङ्मुखचित्ताः, तथा 'नित्यं' सर्वकालम् 'उपप्लुताः' उपप्लवेनोपेता न तु मनागपि रतिमासादयन्ति एवं 'नित्यं' सर्वकालं परममशुभम् 'अतुलम्' अशुभत्वेनानन्यसदृशम् 'अनुबद्धम्' अशुभत्वेन निरन्तरमुपचितं निरयभवं 'प्रत्यनुभवन्तः ' प्रत्येकं वेदयमाना विहरन्ति एवं प्र थिव्यां पृथिव्यां तावद्वक्तत्र्यं यावदधः सप्तमी, अस्यां चाधः सप्तम्यां क्रूरकर्माणः पुरुषा उत्पद्यन्ते नान्ये, तथा चास्यैवार्थस्य प्रदर्शनार्थे पञ्च पुरुषान उपन्यस्यति - 'अहेसत्तमाए णमित्यादि, अधः सप्तम्यां पृथिव्यामप्रतिष्ठाने नरके 'इमे' अनन्तरं वक्ष्यमाणस्वरूपाः पञ्च महापुरुषाः 'अनुत्तरैः' सर्वोत्तमप्रकर्षप्रानैः 'दण्डसमादानैः समादीयते कर्म्म एभिरिति समादानानि - कम्मपादानहेतवः दण्डा एव-मनोदण्डादयः प्राणत्र्यपरोपणाध्यवसायरूपाः समादानानि दण्डसमादानानि तैः कालमासे कालं कृत्वोत्पन्नाः, तद्यथा - रामो जामदग्निसुतः पर्शुराम इत्यर्थः, दाढादाल : छातीसुतः, बसू राजा उपरिचरः, स हि देवताऽधिष्ठिताकाशस्फटिक सिंहासनोपविष्टः सन्नाकाशस्फटिकमयस्य सिंहासनस्यादर्शनतो लोकेष्वेवं प्रसिद्धिमगमत् - सत्यवादी किलैप वसुराजा न प्राणात्ययेऽप्यलीकं भाषते ततः सत्त्वावर्जितदेवताकृतप्रातिहार्य एवमुपर्याकाशे चरतीति स चान्यदा हिंस्त्रवेदार्थप्ररूपकस्य पर्वतस्य पक्षमभिगृह्य सम्यग्दृष्टेर्नारदस्य पक्षमनभिगृहन्नली कवा दित्वात्प्रकुपित देवताच पेटाहतः सिंहासनात्परिभ्रष्टो रौद्रध्यानमभिरूडः सप्तमपृथिव्यामप्रतिष्ठाननरकमयासीत्, सुभूमो|ष्टमञ्चक्रवर्ती कौरव्यः कौरव्यगोत्रो ब्रह्मदत्तलनीसुतः 'ते णं तत्थ वेयणं वेयंती' त्यादि, 'ते' परशुरामादयस्तत्र - अप्रतिष्ठाने नरके वेदनां वेदयन्ते उज्ज्वलां यावद् दुरव्यासामिति प्राग्वत् ॥ सम्प्रति नरके पूष्णवेदनायाः स्वरूपमभिधित्सुराह – 'उसिणवेदणिज्जेसु णं
For Private & Personal Use Only
jainelibrary.org