________________
इव इक्षुपर्वकृमय इव 'चालेमाणा वालेमाणा' शरीरस्य मध्यभागेन संचरन्तः संचरन्तो बेदनामुदीरयन्त्युज्ज्वलामित्यादि प्राग्वत् ॥ सम्प्रति क्षेत्रस्वभावजां वेदनां प्रतिपादयति- 'रयणेत्यादि, रत्नप्रभा पृथिवीनैरयिका भदन्त ! किं शीतां वेदनां वेदयन्ते उष्णां वेदनां वेदयन्ते शीतोष्णां वा ?, भगवानाह - गौतम! न शीतां वेदनां वेदयन्ते किन्तु उष्णां वेदनां वेदयन्ते, ते हि शीतयोनिका योनिस्थानानां केवल हिमानीप्रख्यशीतप्रदेशात्मकत्वात् योनिस्थानव्यतिरेकेण चान्यत् सर्वमपि भूम्यादि खादिराङ्गारादपि महाप्रतप्तमतस्ते उष्णवेदनामनुभवन्ति, नापि शीतोष्णां वेदनां वेदयन्ते, शीतोष्णस्वभावतया वेदनाया नरकेषु मूलतोऽप्यसम्भवान् एवं शर्कराप्रभा॥ १२० ॥ ४ बालुकाप्रभानैरयिका अपि वक्तव्याः पङ्कप्रभापृथिवीनैरविकपृच्छायाम् भगवानाह - गौतम ! शीतामपि वेदनां वेदयन्ते नरकावास भेदेनोष्णामपि वेदनां वेदयन्ते नरकावा सभेदेनैव, न तु शीतोष्णां, तत्र ते बहुतरा ये उणां वेदनां वेदयन्ते, प्रभूततराणां शीतयोनित्वात्, ते स्तोकतरा ये शीतां वेदनां वेदयन्ते, अल्पतराणामुष्णयोनित्वात् एवं धूमप्रभायामपि वक्तव्यं, नवरं ते बहुतरा ये शीतवेदनां वेदयन्ते, बहूनामुष्णयोनित्वात्, ते स्तोकतरा ये उष्णवेदनां वेदयन्ते, अल्पतराणां शीतयोनित्वात् तमःप्रभापृथिवीनैरयिकप्रच्छायां भगवानाह - गौतम ! शीतां वेदनां वेदयन्ते नोष्णां नापि शीतोष्णां, तत्रत्यानां सर्वेषामुष्णयोनित्वात् योनिस्थानव्यतिरेकेण चान्यस्य सर्वस्यापि नरकभूम्यादेर्महा हिमानीप्रख्यत्वान् एवं तमस्तमाप्रभापृथिवीनैरयिका अपि वक्तव्या; नवरं परमां शीतवेदनां वे दयन्ते इति वक्तव्यं तमः प्रभा पृथिवीतः तमस्तमप्रभा पृथिव्यां शीतवेदनाया अतिप्रबलत्वात् ॥ सम्प्रति भवानुभवप्रतिपादनार्थमाह-'रयणे त्यादि, रत्नप्रभा पृथिवीनैरयिका भदन्त ! कीदृशं नरकभवं प्रत्यनुभवन्तः प्रत्येकं वेदयमानाः 'विहरन्ति' अवतिष्ठन्ते ?, भगवानाह - गौतम ! रत्नप्रभा पृथिवीनैरयिका 'नित्यं' सर्वकालं क्षेत्रस्वभावजमहानिविडान्धकारदर्शनतो भीताः सर्वत उपजातशङ्कत्वात्,
श्रीजीवाजीवाभि० मलयगिरीयावृत्तिः
Jain Education
For Private & Personal Use Only
३ प्रतिपत्तौ
उद्देशः २
नारकाणा
क्षुत्तृि
क्रिया
वेदनाः
सू० ८९
॥ १२० ॥
w.jainelibrary.org