________________
Jain Education
प्रतीताः, भिण्डमाल:- शस्त्र जातिविशेष:, अत्र सङ्ग्रहणिगाथा कचित्पुस्तकेषु — “मुग्गर मुसुंढिकर कयअसिसत्ति हलं गया मुसलचक्का । नारायकुंततोमरसूललउडभिंडिमाला य ||१|| गतार्था, नवरं 'करकय'त्ति क्रकचं करपत्रमित्यर्थः, पृथक्त्वं विकुर्वन्तो मुहररूपाणि वा यावन् भिण्डमालरूपाणि वा, तान्यपि सदृशानि, (समानरूपाणि) 'नोऽसदृशानि ( अ ) समानरूपाणि तथा 'सङ्ख्ये यानि' परिमितानि न 'असह्वयेयानि सङ्ख्यातीतानि, विसदृश करणेऽसोय करणे वा शक्त्यभावात् तथा 'संवद्धानि' स्वात्मनः शरीरसंलग्नानि 'नासंवद्धानि' न स्वशरीरात्पृथग्भूतानि स्वशरीरात्थग्भूतकरणे शक्त्यभावान्, विकुर्वन्ति विकुवित्वाऽन्योऽन्यस्य कायमभिन्नन्तो बेदनामुदीरयन्ति, किविशिष्टामित्याह – 'उज्ज्वलां' दुःखरूपतया जाज्वल्यमानां सुखलेशेनाप्यकलङ्कितामिति भाव:, 'विपुलां सकलशरीरख्यापितया विस्तीर्णी 'प्रगाढा' प्रकर्षेण मर्मप्रदेशव्यापितयाऽतीव समवगाढां कर्कशामिव कर्कशां, किमुक्तं भवति ? - यथा कर्कशः पापाणसंघर्ष: शरी रस्य खण्डानि त्रोटयति एवमात्मप्रदेशान् त्रोटयन्तीव या वेदनोपजायते सा कर्कशा तां कटुकामिव कटुकां पित्तप्रकोपपरिकलितवपुपो रोहिणी - कटुद्रव्यभिवोपभुज्यमानमतिशयेनाप्रीतिजनिकामिति भाव:, तथा 'परुषां' मनसोऽतीव रौक्ष्यजनिकां 'निठुराम्' अश क्यप्रतीकारतया दुर्भेदां 'चण्ड' रुद्रां रौद्राध्यवसायहेतुत्वात् 'तीव्राम्' अतिशायिनीं 'दुःखां' दुःखरूपां 'दुर्गा' दुर्लक्ष्यामत एव दुरधिसह्याम् एवं पृथिव्यां पृथिव्यां तावद्वक्तव्यं यावत्पञ्चम्याम् । 'छठ्ठसत्तमीसु णमित्यादि पष्ठसप्तम्योः पुनः पृथिव्योनैरयिका: बहूनि महान्ति गोमयकी प्रमाणत्वात् 'लोहित कुन्थुरूपाणि' आरक्त कुन्थुरूपाणि वश्रमयतुण्डानि, गोमय कीटसमानानि विकुर्वन्ति, विकुवित्वा 'अन्योऽन्यस्य' परस्परस्य 'कार्य' शरीरं समतुरङ्गा इवाचरन्तः समतुरङ्गायमाणाः, अश्वा इवान्योऽन्यमारुहन्त इत्यर्थः, 'खायमाणा खायमाणा' भक्षयन्तो भक्षयन्तोऽन्तरन्तः 'अनुप्रवेशयन्तः' अनुप्रविशन्तः 'सयपोरागकिमिया इव' शतपर्वकृमय
For Private & Personal Use Only
www.jainelibrary.org