SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ श्रीजीवाजीवाभि० मलयगिरीयावृत्तिः ॥ १२२ ॥ Jain Education In वा अविध्वस्तं वा पुनरपि प्रत्युद्धर्तुम्, एवंरूपा नाम तत्रोष्णवेदना || अस्यैवार्थस्य स्पष्टतरभावनार्थं दृष्टान्तान्तरमाह - ' से जहानामए' इत्यादि, 'से' सकलजनप्रसिद्धो यथेति दृष्टान्तत्वोपदर्शने वाशब्दो विकल्पने, अयं वा दृष्टान्तो विवक्षितार्थप्रतिपत्तये बोद्धव्य इति विकल्पनभावना, 'मत्तः' मदकलितः 'मातङ्गः' हस्ती, इह मातङ्गोऽन्त्यजोऽपि संभवति ततस्तदाशङ्काव्युदासार्थं नानादेशज विनेयजनानुग्रहाय (वा) पर्यायद्वयमाह - 'द्विपः ' द्वाभ्यां मुखेन करेण चेत्यर्थः पिवतीति द्विपः, 'मूलविभुजादय' इति कप्रत्ययः, कौ जीर्यतीति कुञ्जरः, यदिवा कुले - बनगहने रमति - रतिमावघ्नातीति कुञ्जरः 'क्वचिदिति उप्रत्ययः, षष्टिहायनाः संवत्सरा यस्य स षष्टिहायन: 'प्रथमशरत्कालसमये' कार्त्तिकमाससमये, इह प्राय ऋतवः सूर्यर्त्तवो गृह्यन्ते ते चापाढादयो द्विद्विमासप्रमाणा:, प्रवचने चक्रमेणैवनामानः, तद्यथा - प्रथमः प्रावृट् द्वितीयो वर्षारात्रः तृतीयः शरत् चतुर्थी हेमन्तः पञ्चमो वसन्तः षष्ठो ग्रीष्मः, तथा चाह पादलिप्तसूरिः - "पाउस वासारतो, सरओ हेमंत वसन्त गिम्हो य । एए खलु छप्पि रिऊ, जिणवरदिट्ठा मए सिट्टा ||१|| " ततः प्रथमशरत्कालसमयः कार्त्तिकसमय इति विवृत्तम् आह च मूलटीकाकृत् — “प्रथमशरत्- कार्त्तिकमासः ” तस्मिन् वाशब्दो वि कल्पने 'चरमनिदाघकालसमये वा' चरम निदाघकालसमयो - ज्येष्ठमासपर्यन्तस्तस्मिन् वाशब्दो विकल्पने, 'उष्णाभिहतः' सूर्यखरकिरणप्रतापाभिभूतः, अत एवोष्णैः सूर्यकिरणैः सर्वतः प्रतप्ताङ्गतया शोषभावतस्तृषाभिहतः, तत्रापि पानीयगवेषणार्थमितस्ततः स्वेच्छया परिभ्रमतः कथञ्चिदवाग्निप्रत्यासत्तौ गमनतो दवाग्निज्वालाभिहतः अत एव 'आतुरः' क्वचिदपि स्वास्थ्यमलभमानः सन् आकुल:, सर्वाङ्गपरितापसम्भवेन गलतालुशोपभावात् शुषितः कचित् 'झिजिए' इति पाठस्तत्र 'क्षितः ' क्षीणशरीर इति व्याख्येयम् असाधारणतृ डूवेदनासमुच्छलनात्पिपासितः अत एव दुर्बलः शारीरमानसावष्टम्भरहितत्वात् 'क्लान्तः' ग्लानिमुपगतः For Private & Personal Use Only ३ प्रतिपत्तौ | उद्देशः २ नारकाणां शीतोष्ण वेदनाः सू० ८९ ॥ १२२ ॥ v.jainelibrary.org
SR No.600089
Book TitleJivajivabhigamopanga Sutra
Original Sutra AuthorChaturdash Purvadhar
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages938
LanguageSanskrit
ClassificationManuscript & agam_jivajivabhigam
File Size20 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy