SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ श्रीजीवाजीवाभि० मलयगिरीयावृत्तिः प्रतिपत्ती उद्देशः १ नरकावासानां महत्ता सू०८४ ॥१०८॥ SASSAMACLEAGA तिआ वा उक्कोसेणं छम्मासेणं वीतिवएजा, अत्थेगतिए वीइवएज्जा अत्धेगतिए नो वीतिवएजा, एमहालता णं गोयमा! इमीसे णं रयणप्पभाए पुढवीए णरगा पण्णत्ता, एवं जाव अधेसत्तमाए. णवरं अधेसत्तमाए अत्थेगतियं नरगं वीइवइजा, अत्धेगइए नरगे नो वीतिवएज्जा ।। (सू०८४) 'इमीसे ण'मित्यादि, अस्यां भदन्त ! रत्नप्रभायां पृथिव्यां नरकाः 'किंमहान्तः' किंप्रमाणा महान्तः प्रज्ञप्ताः ?, पूर्व ह्यसवयेयविस्तृता इति कथितं, तच्चासयेयत्वं नावगम्यत इति भूयः प्रश्नः, अत एवात्र निर्वचनं भगवानुपमयाऽभिधत्ते, गौतम! अयमिति यत्र संस्थिता वयं णमिति वाक्यालङ्कारे अष्ठयोजनोच्छ्रितया रत्नमय्या जम्ब्वा उपलक्षितो द्वीपो जम्बूद्वीपः सर्वद्वीपसमुद्राणां-धातकीखण्डलवणादीनां सर्वाभ्यन्तर:-आदिभूत: 'सर्वक्षुल्लकः' सर्वेभ्यो द्वीपसमुद्रेभ्यः क्षुल्लको-हवः सर्वक्षुल्लकः, तथाहि-सर्वे लवणादयः समुद्रा: सर्वे धातकीखण्डादयो द्वीपा अस्माजम्बूद्वीपादारभ्य प्रवचनोक्तेन क्रमेण द्विगुणद्विगुणायामविष्कम्भपरिधयः ततोऽयं शेषसर्वद्वीपसमुद्रापेक्षया सर्वलघुरिति, तथा वृत्तो यत: 'तैलापूपसंस्थानसंस्थितः' तैलेन पकोऽपूपस्तैलापूपः, तैलेन हि पक्कोऽपूपः प्रायः परिपूर्णवृत्तो भवति न घृतेन पक इति तैलविशेषणं, तस्येव संस्थानं तैलापूपसंस्थानं तेन संस्थितस्तैलापूपसंस्थानसंस्थितः, तथा वृत्तो यत: पुष्करकर्णिकासंस्थानसंस्थितः, तथा वृत्तो यतो रथचक्रवालसंस्थानसंस्थितः, तथा वृत्तो यतः परिपूर्णचन्द्रसंस्थानसंस्थितः, अनेकधो४|| पमानोपमेयभावो नानादेशजविनेयप्रतिपत्त्यर्थः, एक योजनशतसहस्रमायामविष्कम्भेन त्रीणि योजनशतसहस्राणि पोडश सहस्राणि द्वे | योजनशते सप्तविंशे त्रयः क्रोशा अष्टाविंशं धनुःशतं त्रयोदश अङ्गुलानि अर्धाङ्गलं च किञ्चिद्विशेषाधिकं परिक्षेपेण प्रज्ञप्तः, परिक्षेपपरिमाणगणितभावना क्षेत्रसमासटीकातो जम्बूद्वीपप्रज्ञप्तिटीकातो वा वेदितव्या । 'देवे णमित्यादि, देवश्च णमिति वाक्याल Jain Education in For Private Personel Use Only Krjainelibrary.org
SR No.600089
Book TitleJivajivabhigamopanga Sutra
Original Sutra AuthorChaturdash Purvadhar
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages938
LanguageSanskrit
ClassificationManuscript & agam_jivajivabhigam
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy