SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ कारे, 'महर्द्धिकः' महती ऋद्धिर्विमानपरिवारादिका यस्य स महर्द्धिकः, महती द्युतिः शरीराभरणविषया यस्य स महाद्युतिकः, महद् बलं-शारीरः प्राणो यस्य स महाबलः, महद् यशः-ख्यातिर्यस्य स महायशाः, तथा 'महेसक्खे' इति महेश इति महान ईश्वर इत्याख्या यस्य स महेशाख्यः, अथवा ईशनमीशो भावे घञ्प्रत्यय ऐश्वर्यमित्यर्थः, 'ईशं ऐश्वर्ये' इति वचनात् , तत ईशम्-ऐश्वर्यमासन: ख्याति-अन्तर्भूतण्यर्थतया ख्यापयति-प्रथयति ईशाख्यः, महांश्वासावीशाख्यश्च महेशाख्यः, क्वचित् 'महासोक्खे' इति पाठः, तत्र महत् सौख्यं यस्य प्रभूतसद्वेदोदयवशात्स महासौख्यः, अन्ये पठन्ति–'महासक्खे' इति तत्रायं शब्दसंस्कारो-महाश्वाक्षः, इयं चात्र पूर्वाचार्यप्रदर्शिता व्युत्पत्ति:-आशुगमनादश्वो-मन: अक्षाणि-इन्द्रियाणि स्वविषयव्यापकत्वात् अश्वश्चाक्षाणि च अश्वाक्षाणि महान्ति अश्वाक्षाणि यस्यासौ महाश्वाक्षः, तथा 'महाणुभागे' इति अनुभागो-विशिष्टवैक्रियादिकरणविषयाऽचिन्त्या शक्ति: 'भा गोऽचिंता सत्ती' इति वचनान् , महान अनुभागो यस्य स महानुभागः, अमूनि महर्द्धिक इत्यादीनि विशेषणानि तत्सामर्थ्यातिशजयप्रतिपादकानि यावदिति चप्पुटिकात्रयकरणकालावधिप्रदर्शनपरम् 'इणामेव इणामेवेतिकट्ट' एवमेव मुधिकया एवमेव 'मोरकुल्ला के मुहा य मुहियत्ति नायब्वा' इति वचनाद् अवज्ञयेति भावः, उक्तञ्च मूलटीकायाम् "इणामेव इणामेवेति कट्ट एवमेव मुधिकयाऽवज्ञयेति" 'इतिकृत्वे'ति हस्तदर्शितचप्पुटिकात्रयकरणसूचकं केवलकल्पं-परिपूर्ण जम्बूद्वीपं त्रिभिरप्सरोनिपातैः, अप्सरोनिपातो नाम |चप्पुटिका, तत्र तिमृभिश्चप्पुटिकाभिरिति द्रष्टव्यं, चप्पुटिकाश्च कालोपलक्षणं, ततो यावता कालेन तिस्रश्चप्पुटिका: पूर्यन्ते तावकालमध्य इत्यर्थः, त्रिसप्तकृत्वः-एकविंशतिवारान अनुपरिवर्त्य-सामस्त्येन परिभ्रम्य 'हव्वं' शीघ्रमागच्छेत् , स इत्थम्भूतगमन शक्तियोग्यो देवः तया देवजनप्रसिद्धया उत्कृष्टया प्रशस्त विहायोगतिनामोदयात्प्रशस्तया शीघ्रसंचरणात्त्वरितया त्वरा संजाताऽस्यामिति जी०च०१९ Jain Education For Private & Personel Use Only A jainelibrary.org
SR No.600089
Book TitleJivajivabhigamopanga Sutra
Original Sutra AuthorChaturdash Purvadhar
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages938
LanguageSanskrit
ClassificationManuscript & agam_jivajivabhigam
File Size20 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy