SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ AC% सहस्र-योजनसहस्रं, मध्ये-पीठस्योपरि मध्यभागे सुषिरा: सहस्र-योजनसहस्रं. तत 'उप्पिंति उपरि सङ्कचिताः शिखराकृत्या स-1 कोचमुपगता योजनसहस्रं, तत एवं सर्वसङ्ख्यया नरकावासानां त्रीणि योजनसहस्राणि वाहल्यतो भवन्ति, एवं पृथिव्यां पृथिव्यां तावद्वक्तव्यं यावद्धःसप्तम्यां, तथा चोक्तमन्यत्रापि-हेट्ठा घणा सहस्सं उरिप संकोचतो सहस्सं तु । मज्झे सहस्स ससिरा तिन्नि सहस्सूसिया नरया ॥१॥" सम्प्रति नरकावासानामायामविष्कम्भप्रतिपादनार्थमाह-'इमीसे णं भंते!' इत्यादि, अस्यां भदन्त ! रत्नप्रभायां पृथिव्यां नरकाः किंप्रमाणमायामविष्कम्भेन, समाहारो द्वन्द्वस्तेनायामविष्कम्भाभ्यामित्यर्थः, कियत् 'परिक्षेपेण' परिरयेण प्रज्ञता: ?, भगवानाह-गौतम ! द्विविधाः प्रज्ञप्ता:, तद्यथा-सङ्ख्येयविस्तृताश्च असङ्ख्येयविस्तृताश्च, सङ्ख्येययोजनप्रमाणं विस्तृतं-18 विस्तरो येषां ते सोयविस्तृताः, एवमसङ्ख्येयं विस्तृतं येषां ते असङ्ख्येयविस्तृता:. चशब्दो स्वगतानेकसचयाभेदप्रकाशनपरौ, तत्र ये ते सङ्ख्येयविस्तृतास्ते सत्येयानि योजनसहस्राणि आयामविष्कम्भेन सङ्ख्येयानि योजनसहस्राणि परिक्षेपेण, तत्र ये तेऽसङ्ख्येयविस्तृतास्तेिऽसङ्ख्येयानि योजनसहस्राण्यायामविष्कम्भेन असोयानि योजनसहस्राणि परिक्षेपेण प्रज्ञतानि, एवं प्रतिपृथिवि तावद्वक्तव्यं याव-8 षष्ठी पृथिवी, सूत्रपाठस्त्वेवम्-सक्करप्पभाए णं भन्ते ! पुढवीए नरगा केवइयं आयामविक्खंभेणं केवइयं परिरयेणं पण्णत्ता?, गोयमा दुविहा पण्णत्ता, तंजहा-संखेजवित्थडा य, असंखेजवित्थडा य” इत्यादि । 'अहेसत्तमाए णं भंते !" इत्यादि, अधःसप्तम्यां भदन्त!] पृथिव्यां नरकाः कियदायामविष्कम्भेन कियत्परिक्षेपेण प्रज्ञप्ताः ?, भगवानाह-गौतम! द्विविधाः प्रज्ञताः, तद्यथा-सङ्ख्येयविस्तृत एकः, स चाप्रतिष्ठानाभिधानो नरकेन्द्रकोऽवसातव्यः, असङ्ख्येयविस्तृताः शेषाश्चत्वारः, तत्र योऽसौ सङ्ख्येयविस्तृतोऽप्रतिष्ठानाभिधानो नरकेन्द्रकः स एक योजनशतसहस्रमायामविष्कम्भेन त्रीणि योजनशतसहस्राणि पोडश सहस्राणि द्वे योजनशते सप्तविंशत्यधिके त्रयः 29-0GOROSCOCALCOM 9CSCANARCOACTOR JainEducation H ilnal For Private Personel Use Only Dowjainelibrary.org
SR No.600089
Book TitleJivajivabhigamopanga Sutra
Original Sutra AuthorChaturdash Purvadhar
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages938
LanguageSanskrit
ClassificationManuscript & agam_jivajivabhigam
File Size20 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy