________________
श्रीजीवाजीवाभि०
॥ १०५ ॥
त्संस्थिता: 'पिट्ठपयणगसंठिया' अत्र सङ्ग्रहणिगाथे- “अयकोटुपिढपयणगकंडूलोहीकडाहसंठाणा । थाली पिहडग किण्ड (ग) उडए सुरवे मुगे य ॥ १ ॥ नंदमुइंगे आलिंग सुधोसे दद्दरे य पणवे य । पडगझल्लरिभेरीकुत्तुंवगनाडिसठाणा || २ ||” कण्डुःमलयगि- पाकस्थानं लोहीकटाही प्रतीतौ तद्वत्संस्थानाः स्थाली - उपा पिडं-यत्र प्रभूतजनयोग्यं धान्यं पच्यते उदजः - तापसाश्रमो मुरजोरीयावृत्तिः * मर्द्दलविशेषः नन्दीमृदङ्गो - द्वादशविधतूर्यान्तर्गतो मृदङ्गः, स च द्विधा, तद्यथा - मुकुन्दो मर्दलच तत्रोपरि सङ्कुचितोऽधो विस्तीर्णो मकुन्दः उपर्यधश्च समो मर्दल: आलिङ्गो-मृन्मयो मुरजः सुघोषो देवलोकप्रसिद्धो घण्टाविशेष आतोद्यविशेषो वा दर्द - वायविशेषः पणवो - भाण्डानां पटह: पटह: - प्रतीतः, भेरी-ढक्का, झल्लरी - चर्मावनद्धा विस्तीर्णवलयाकारा, कुस्तुम्बक:- संप्रदायगम्यः, नाडी- घटिका, एवं शेषास्वपि पृथिवीषु तावद्वक्तव्यं यावत्पष्ठयां, सूत्रपाठोऽप्येवम् - " सकरपभाए णं भंते! पुढवीए नरका किंसंठिया पन्नत्ता ?, गोयमा ! दुबिहा पन्नत्ता, तंजहा - आवलिकापविट्ठा य आवलियाबाहिरा य" इत्यादि ॥ अधः सप्तमीविषयं सूत्रं साक्षादुपदर्शयति-- ' अहेसत्तमाए णं भंते!' इत्यादि, अधः सप्तम्यां भदन्त ! प्रथिव्यां नरका: 'किंसंस्थिताः ' किमिव संस्थिताः प्रज्ञप्ता: ?, भगवानाह - गौतम ! द्विविधाः प्रज्ञप्ताः, तद्यथा - 'वड्डे य तंसा य' इति, अधः सप्तम्यां हि पृथिव्यां नरका आवलिकाप्रविष्टा एव न आवलिकाबाह्याः, आवलिकाप्रविष्टा अपि पञ्च, नाधिकाः, तत्र मध्येऽप्रतिष्ठानाभिधानो नरकेन्द्रो वृत्तः सर्वेषामपि नरके - न्द्राणां वृत्तत्वात् शेषास्तु चत्वारः पूर्वादिषु दिक्षु, ते च व्यस्राः, तत उक्तं वृत्तश्च व्यस्राश्च ॥ सम्प्रति नरकावासानां बाहुल्यप्रतिपादनार्थमाह-' इमीसे ण' मित्यादि, अस्यां भदन्त ! रत्नप्रभायां पृथिव्यां नरकाः कियद्बाहल्येन - वहलस्य भावो बाहुल्यं - पिण्डभाव उत्सेध इत्यर्थ: तेन प्रज्ञप्ता: ?, भगवानाह - गौतम ! त्रीणि योजनसहस्राणि बाहुल्येन प्रज्ञप्ताः, तद्यथा - अधस्तने पादपीठे घना - निचिता:
Jain Education
For Private & Personal Use Only
३ प्रतिपत्तौ उद्देशः १ नरकवा
सानां सं
स्थानं तद्वाहल्यं च
सू० ८२
५ ॥ १०५ ॥
jainelibrary.org