SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ जनशतसहस्रमबाधयाऽन्तरं प्रज्ञप्तं । 'इमीसे ण'मित्यादि, अस्य भदन्त ! रत्नप्रभायाः पृथिव्या रत्नकाण्डस्योपरितनाञ्चरमान्तात्परतोऽबहुलस्य काण्डस्य य उपरितनश्चरमान्त एतदन्तरं कियद् अबाधया प्रज्ञप्तम् ?, भगवानाह-गौतम! एकं योजनशतसहस्रमबाधयाऽन्तरं प्रज्ञप्तं । 'इमीसे ण'मित्यादि, अस्या भदन्त ! रत्नप्रभायाः पृथिव्या रत्नकाण्डस्योपरितनाञ्चरमान्तात्परतोऽब्बहुलस्य काण्डस्य | योऽधस्तनश्वरमान्त एतदन्तरं कियद् अबाधया प्रज्ञप्तम् ?, भगवानाह-गौतम! अशीत्युत्तरं योजनशतसहस्रम् । घनोदधेरुपरितने दाचरमान्ते पृष्टे एतदेव निर्वचनमशीत्युत्तरयोजनशतसहस्रम् , अधस्तने पृष्टे इदं निर्वचन-द्वे योजनशतसहस्र अबाधयाऽन्तरं प्रज्ञप्तम् ।। घनवातस्योपरितने चरमान्ते पृष्टे इदमेव निर्वचनं, घनोदध्यधस्तनचरमान्तस्य घनवातोपरितनचरमान्तस्य च परस्परं संलग्नत्वात् । घनवातस्याधस्तने चरमान्ते पृष्टे एतन्निर्वचनम्-असङ्ख्येयानि योजनशतसहस्राण्यबाधयाऽन्तरं प्रज्ञप्तम् । एवं तनुवातस्योपरितने चर-| मान्ते अधस्तने चरमान्ते अवकाशान्तरस्याप्युपरितनेऽधस्तने च चरमान्ते इत्थमेव निर्वचनं वक्तव्यम् , असङ्ख्येयानि योजनशतसहस्राण्यबाधयाऽन्तरं प्रज्ञप्तमिति, सूत्रपाठस्तु प्रत्येकं सर्वत्रापि पूर्वानुसारेण स्वयं परिभावनीय: सुगमत्वात् ।। 'दोच्चाए णं' इत्यादि, | द्वितीयस्या भदन्त ! पृथिव्या उपरितनाञ्चरमान्तात्परतो योऽधस्तनश्चरमान्त एतत् 'कियत्' किंप्रमाणमवाधयाऽन्तरं प्रज्ञप्तम् ?, भगवानाह-गौतम ! 'द्वात्रिंशदुत्तरं' द्वात्रिंशत्सहस्राधिकं योजनशतसहस्रमवाधयाऽन्तरं प्रज्ञप्तम् । धनोदधेरुपरितने चरमान्ते पृष्टे एत-| देव निर्वचनं द्वात्रिंशदुत्तरं योजनशतसहस्रम् , अधस्तने चरमान्ते पृष्टे इदं निर्वचनं-द्विपञ्चाशदुत्तरं योजनशतसहस्रम् । एतदेव घनवातस्योपरितनचरमान्तपृच्छायामपि, धनवातस्याधस्तनचरमान्तपृच्छायां तनुवातावकाशान्तरयोरुपरितनाधस्तनचरमान्तपृच्छासु च यथा रत्नप्रभायां तथा वक्तव्यम् , असहयेयानि योजनशतसहस्राण्यबाधयाऽन्तरं प्रज्ञप्तमिति वक्तव्यमिति भावः ॥ तच्चाए णं in Education For Private & Personel Use Only S r.jainelibrary.org
SR No.600089
Book TitleJivajivabhigamopanga Sutra
Original Sutra AuthorChaturdash Purvadhar
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages938
LanguageSanskrit
ClassificationManuscript & agam_jivajivabhigam
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy