________________
र प्रतिपत्तो सामान्यविशेषत| या स्त्रीत्वस्थितिः सू०४८
श्रीजीवा- जघन्यतोऽन्तर्मुहर्तमन्तर्मुहूर्त्तायुःशेषायाः संहृतिभावात् , उत्कर्षेण त्रीणि पल्योपमानि देशोनया पूर्वकोट्याऽभ्यधिकानि, कथम इति जीवाभिःचेदुच्यते-काचित्पूर्व विदेहमनुष्यस्त्री अपरविदेहमनुष्यत्री वा देशोनपूर्वकोट्यायुःसमन्विता देवकुर्वादौ संहृता, सा च पूर्वदृष्टान्तबलेन मलयगि- देवकुर्वादिका जाता, ततः सा देशोनां पूर्वकोटिं जीवित्वा मृत्वा च तत्रैव त्रिपल्योपमायुष्का समजनि, तत एवं देशोनपूर्वकोट्यधिक रीयावृत्तिः तापल्योपमत्रयमिति, अनेन संहरणतो जघन्योत्कृष्टावस्थानकालमानप्रदर्शनेन न्यूनान्तर्मुहूर्त्तायु:शेषाया गर्भस्त्रिया वा न संहरणमिति
प्रतिपादितम् , अन्यथा जघन्यतोऽन्तर्मुहूर्त्तमुत्कर्षचिन्तायां पूर्वकोट्या देशोनता न स्यादिति । अकर्मभूमिकमनुव्यस्त्रीविषयामेव विशेषचिन्तां करोति-हेमवयेत्यादि, हैमवतैरण्यवतहरिवरम्यकवदेवकुरूत्तरकुर्वन्तरद्वीपिकाणां जन्म प्रतीत्य या यस्याः स्थितिस्ततस्तस्या अवस्थानं वाच्यं, संहरणं प्रतीत्य जघन्यतोऽन्तर्मुहूर्त्तमुत्कर्पतो या यस्या उत्कष्टा स्थितिः सा तस्या देशोनया पूर्वकोट्याऽभ्यधिका बक्तव्या, सा चैव-हैमवतैरण्यवतयोर्मनुष्यत्री जन्म प्रतीत्य जघन्येन पल्योपमं पल्योपमासङ्ख्येयभागन्यूनम् , उत्कर्षतः परिपूर्ण पल्योपमं, संहरणमधिकृत्य जघन्येनान्तर्मुहूर्त्तम् , अन्तर्मुहूर्त्तायु:शेषाया एव संहरणभावात् , उत्कर्षतः पल्योपमं देशोनया पूर्वकोट्याऽभ्य|धिकं, तत्र देशोनपूर्वकोट्यायुःसमन्वितायास्तत्र संहरणे तत्रैव च मृत्वोत्पन्नाया भावनीयम् । हरिवर्षरम्यकयोर्जन्म प्रतीत्य जघन्येन पल्योपमासङ्खयेयभागन्यूने द्वे पल्योपमे, उत्कर्षत: परिपूर्णे द्वे पल्योपमे । संहरणं प्रतीत्य जघन्येनान्तर्मुहूर्तमुत्कर्षतो देशोनया पूर्वकोट्याऽभ्यधिके द्वे पल्योपमे, भावना प्रागिव । देवकुरूत्तरकुरुपु जन्म प्रतीत्य जघन्यतः पल्योपमासंख्येयभागन्यूनानि त्रीणि पल्योपमानि, उत्कर्षतस्त्रीणि पल्योपमानि । संहरणं प्रतीत्य जघन्यतोऽन्तर्मुहूर्त्तमुत्कर्षतस्त्रीणि पल्योपमानि देशोनया पूर्वकोट्याऽभ्यधिकानि । अन्तरद्वीपेषु जन्म प्रतीत्य जघन्यत: पल्योपमासङ्ख्येयभागन्यूनं पल्योपमासङ्खयेयभागं यावत् उत्कर्षतः पल्योपमासङ्ख्येयभागम् ,
॥६
॥
Jain Education in
For Private & Personal use only
Wrjainelibrary.org
सा