SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ CLOSECONOCOCCA भ्यधिकानि, तत्र सप्त भवा महाविदेहेपु अष्टमो भवो भरतैरावतेष्वेकान्तसुषमादौ त्रिपल्योपमप्रमाण इति, 'धर्मचरणं प्रतीत्य' चारित्रासेवनमाश्रित्य जघन्येनैकं समयं, सर्वविरतिपरिणामस्य तदावरणकर्मक्षयोपशमवैचित्र्यतः समयमेकं सम्भवात् , तत ऊच मर-18 णतः प्रतिपातभावात् , उत्कर्षतो देशोना पूर्वकोटी, समग्रचरणकालस्योत्कर्षतोऽप्येतावन्मात्रप्रमाणत्वात् । भरतैरावतकर्मभूमकमनुष्यस्त्रियाः स्त्रीवं क्षेत्र प्रतीत्य' भरतायेवाश्रित्य जघन्येनान्तर्मुहूर्त तच्च प्राग्वद्भावनीयम् , उत्कर्षतस्त्रीणि पल्योपमानि देशोनया पूर्वकोट्याऽभ्यधिकानि, तानि चैवं-पूर्व विदेहमनुष्यत्री अपरविदेहमनुष्यस्वी वा पूर्वकोट्यायुष्का केनापि भरतादावेकान्तसुषमादौ संहृता, सा च यद्यपि महाविदेहक्षेत्रोत्पन्ना तथाऽपि प्रागुक्तमागधपुरुषदृष्टान्तबलेन भारत्यैरावतीया वेति व्यपदिश्यते, ततः सा भारत्यादिव्यपदेशं प्राप्ता पूर्वकोटि जीवित्वा स्वायुःश्यतस्तत्रैव भरतादावेकान्तसुषमाप्रारम्भे समुत्पन्ना, तत एवं देशोनपूर्वकोट्यभ्यधिकं पल्यो|पमत्रयमिति । धर्मचरणं प्रतीत्य कर्मभूमिजस्त्रिया इव भावनीयं, जघन्यत एक समयमुत्कर्षतो देशोना पूर्वकोटी यावत् , पूर्व विदेहापरविदेहकर्मभूमिजमनुष्यस्त्रियास्तु क्षेत्रमधिकृत्य जघन्यतोऽन्तर्मुहूर्त, तच्च सुप्रतीतं, प्राग्भावितत्वात् , उत्कर्षत: पूर्वकोटिपृथक्त्वं, तत्रैव भूय उत्पत्त्या, धर्मचरणं प्रतीत्य समागतकर्मभूमिजस्त्रिया इव वक्तव्यं, जघन्यत एक समयमुत्कर्षतो देशोनां पूर्वकोटिं यावदिति भावार्थः ।। उक्ता सामान्यतो विशेषतश्च कर्मभूमिकमनुष्यत्रीवक्तव्यता, साम्प्रतमकर्मभूमकमनुष्यत्रीवक्तव्यतां चिकीर्षुः प्रथमत: सामान्येनाह–'अकम्मभूमिगमणुस्सित्थी णं भंते !' इत्यादि, अकर्मभूमकमनुष्यस्त्री, णमिति वाक्यालङ्कारे, अकर्मभूमिकमनुष्यत्रीति | कालत: कियच्चिरं भवति?, भगवानाह-गौतम! 'जन्म तत्रैव सम्भूतिलक्षणं 'प्रतीत्य' आश्रित्य जघन्येन पल्योपमं देशोनं, अष्टभागाघूनमपि देशोनं भवति ततो विशेषस्थापनायाह-पल्योपमस्यासङ्ख्येयभागोनं जघन्यतः उत्कर्षतस्त्रीणि पल्योपमानि, संहरणं प्रतीत्य | CHARAC4%%*%-15 HainEducationing For Private Personal use only nujainelibrary.org .
SR No.600089
Book TitleJivajivabhigamopanga Sutra
Original Sutra AuthorChaturdash Purvadhar
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages938
LanguageSanskrit
ClassificationManuscript & agam_jivajivabhigam
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy