SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ श्रीजीवा-15र्यञ्चो वा समुत्पद्यन्ते ततो नियमादसङ्ख्येयवर्षायुष एव न सङ्ख्येयवर्षायुषः, असङ्ख्येयवर्षायुषश्च मृत्वा नियमतो देवलोकेषूत्पद्यन्ते, ततो ४२ प्रतिपत्तौ जीवाभि० नवमोऽपि मनुष्यभवः सज्ञिपञ्चेन्द्रियतिर्यग्भवो वा निरन्तरं न लभ्यते, अत एव च पाश्चात्याः सप्त भवा निरन्तरं भवन्तः सङ्ख्येय- सामान्यमलयगि- वर्षायुष एवोपपद्यन्ते नैकोऽप्यसलयेयवर्षायुः, असाध्येयवर्षायुर्भवानन्तरं भूयो मनुष्यभवस्य तिर्यग्भवस्य वाऽसम्भवात् , तत्र यदा उ- विशेषतरीयावृत्तिः |त्कर्षतस्तिर्यक्लीवेदसहिताः पाश्चात्याः सप्तापि भवा पूर्वकोट्यायुषो लभ्यन्ते अष्टमस्तु भवो देवकुर्वादिषु तदा भवन्त्युत्कर्षतस्त्रीणि प- या स्त्रीत्वल्योपमानि पूर्वकोटिपृथक्त्वाभ्यधिकानि तिर्यकत्रीत्वस्यावस्थानम् । अत्रैव विशेषचिन्तां चिकीर्षुराह-'जलयरीए' इत्यादि, जलचर्याः स्थितिः स्त्रिया जलचरस्त्रीत्वेन निरन्तरं भवन्त्या जघन्यतोऽवस्थानमन्तर्मुहूर्तमुत्कर्षतः पूर्वकोटिपृथक्त्वं, सप्तपूर्वकोट्यायुर्भवानन्तरं जलचरस्त्री- सू०४८ णामवश्यं जलचरस्त्रीत्वच्युतिभावात् , 'चउप्पयथलयरीए जहा ओहियाए' इति, चतुष्पदस्थलचरस्त्रिया यथा औधिक्यास्तिर्यकस्त्रिया उक्तं तथा द्रष्टव्यं, तचैवम-जघन्यतोऽन्तर्मुहर्त तत ऊर्व तद्भावपरित्यागसम्भवात् , उत्कर्षतस्त्रीणि पल्योपमानि पूर्वकोटिपृथक्त्वाभ्य|धिकानि, तानि च प्रागिव भावनीयानि । उर:परिसर्पस्थलचरस्त्रिया भुजपरिसर्पस्थलचरस्त्रियाश्च यथा जलचरस्त्रियास्तथा वक्तव्यं, तञ्चैवं-जघन्यतोऽन्तर्मुहूर्त्तमुत्कर्षत: पूर्वकोटिपृथक्त्वं तच्च पूर्ववद्भावनीयम् । खचरस्त्रिया जघन्यतोऽन्तर्मुहूर्त्तमुत्कर्षत: पल्योपमासङ्ख्येयभागः पूर्वकोटिपृथक्त्वाभ्यधिक उत्कर्षतोऽवस्थानमिति ॥ तदेवमुक्तं तिर्यक्तियाः सामान्यतो विशेषतश्च अवस्थानमान, सम्प्रति मनुष्यस्त्रिया आह–'मणुस्सित्थियाए' इत्यादि, मनुष्यस्त्रियाः सामान्यतो यथा औधिक्यास्तिर्यक्तियाः, तच्चैत्र-जघन्यतोऽन्तर्मुहूर्तमुत्कर्षतस्त्रीणि पल्योपमानि पूर्वकोटिपृथक्त्वाभ्यधिकानि, तानि च सामान्यतस्तियक्तीबद्भावनीयानि । कर्मभूमकमनुष्यस्त्रियः क्षेत्रं प्रतीत्य ॥ ५९॥ सामान्यतः कर्मक्षेत्रमधिकृत्य जघन्यतोऽन्तर्मुहूर्त, तत ऊर्ध्वं तद्भावपरित्यागसम्भवात् , उत्कर्षतस्त्रीणि पल्योपमानि पूर्वकोटिपृथक्त्वा JanEducation in For Private Personal use only P ainelibrary.org
SR No.600089
Book TitleJivajivabhigamopanga Sutra
Original Sutra AuthorChaturdash Purvadhar
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages938
LanguageSanskrit
ClassificationManuscript & agam_jivajivabhigam
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy