SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ GAOCOCCURACCASCAUSA पञ्चाशत्पल्योपमप्रमाणोत्कृष्टायुष्कास्वपरिगृहीतदेवीषु मध्ये देवीत्वेनोत्पद्यते, तत एवं चतुर्थादेशवादिमतेन पल्योपमशतं पूर्वकोटिपृथ। क्त्वाभ्यधिकं भवति । पञ्चमेनादेशेन जघन्यत एक समयमुत्कर्षतः पल्योपमपृथक्त्वं पूर्वकोटिपृथक्त्वाभ्यधिकं, तच्चैवं-नारीषु तिरश्वीषु । वा पूर्वकोट्यायुष्कासु मध्ये सप्त भवाननुभूयाष्टमभवे देवकुर्वादिषु त्रिपल्योपमस्थितिकासु स्त्रीषु मध्ये स्त्रीत्वेन समुत्पद्यते, ततो मृत्वा | सौधर्मदेवलोके जघन्यस्थितिकासु देवीषु मध्ये देवीवेनोपजायते, तदनन्तरं चावश्यं वेदान्तरमधिगच्छति, ततः पञ्चमादेशवादिमतेन स्त्रीवेदस्यावस्थानं पूर्वकोटिपृथक्त्वाभ्यधिकं पल्योपमपृथक्त्वं, ते ह्येवमाहुर्नानाभवप्रमाणद्वारे-यदि स्त्रीवेदस्योत्कृष्टमवस्थानं चिन्यते तत इत्थमेतावदेव लभ्यते, नाधिकमन्यथा चेति । अमीषां च पञ्चानामादेशानामन्यतमादेशसमीचीनतानिर्णयोऽतिशयज्ञानिभिः सर्वोत्कृष्टश्रुतलब्धिसंपन्नैर्वा कर्तुं शक्यते, ते च सूत्रकृत्प्रतिपत्तिकाले नासीरनिति सूत्रकृन्न निर्णयं कृतवानिति । तदेवं सामान्यतः स्त्री स्त्रीत्वं नरन्तर्येणामुञ्चन्ती यावन्तं कालमवतिष्ठते तावत्कालप्रमाणमुक्तम् ॥ इदानी तिर्यस्त्रियास्तिर्यकत्रीत्वमजहत्याः कालमानं विचिन्तयिषुरिदमाह-'तिरिक्खजोणिइथिए णं भंते !, इत्यादि, तिर्यकत्री णमिति वाक्यालङ्कारे भदन्त ! तिर्यकत्रीति कालतः कियच्चिरं भवति ?, भगवानाह-गौतम ! जघन्येनान्तर्मुहूर्तमुत्कर्षतस्त्रीणि पल्योपमानि पूर्वकोटिपृथक्त्वाभ्यधिकानि, तत्रान्तर्मुहूर्त कस्याश्चित्तावत्प्रमाणायुकतया तदनन्तरं मृत्वा वेदान्तराधिगमाद्विलक्षणमनुष्यभवान्तराधिगमाद्वा, कथमुत्कर्षतस्त्रीणि पल्योपमानि पूर्वकाटीपृथक्त्वाभ्यधिकानि ? इति चेदुच्यते-इह नराणां तिरश्चां चोत्कर्षतोऽष्टौ भवाः प्राप्यन्ते नाधिकाः, "नरतिरियाणं सत्तटुभवा" इति वचनात् , तत्र सप्त भवाः सहयेयवर्षायुषोऽष्टमस्त्वसङ्ख्येयवर्षायुरेव, तथाहि-पर्याप्तमनुष्याः पर्याप्तसज्ञिपञ्चेन्द्रियतिर्यञ्चो वा निरन्तरं यथासयं हा सप्त पर्याप्तमनुष्यभवान् सप्त पर्याप्तसज्ञिपञ्चेन्द्रियतिर्यगभवान् वाऽनुभूय यद्यष्टमे भवे भूयः पर्याप्तमनुष्याः पर्याप्तसज्ञिपञ्चेन्द्रियति Jain Education in For Private & Personel Use Only M ainelibrary.org
SR No.600089
Book TitleJivajivabhigamopanga Sutra
Original Sutra AuthorChaturdash Purvadhar
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages938
LanguageSanskrit
ClassificationManuscript & agam_jivajivabhigam
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy