________________
COMLOCALGAONGOLICKR
पचिन्तां चिकीर्षुराह-सुगम, नवरं भरतैरावतेषु त्रीणि पल्योपमानि सुषमसुषमायां, पूर्वविदेहेषु क्षेत्रतः पूर्वकोटी, तत ऊर्ध्वं तत्र तथाक्षेत्रस्वाभाव्यादायुषोऽसम्भवात् , अकम्मभूमिगेत्यादि, जन्म प्रतीत्येति-अकर्मभूमिपूत्पत्तिमाश्रित्य जघन्यतो देशोनं पल्योपमं, तच्चाटभागावूनमपि देशोनं भवति ततो विशेषस्थापनायाह-पल्योपमस्यासङ्घयेयभागेनोनं, एतच्च हैमवतहरण्यवतक्षेत्रापेक्षया द्रष्टव्यं, तत्र जघन्यत: स्थितेरेतावत्प्रमाणायाः सम्भवात् , उत्कर्षतस्त्रीणि पल्योपमानि, तानि च देवकुरूत्तरकुर्वपेक्षया, 'संहरणं पडुच्चे'त्यादि, संहरणं नाम कर्मभूमिजाया: स्त्रियोऽकर्मभूमिपु नयनं 'तत्प्रतीत्य' तदाश्रित्य जघन्येनान्तर्मुहूर्तमुत्कर्षतो देशोना पूर्वकोटी, इयमत्र भावना -इह कर्मभूमिकाऽप्यकर्मभूमिषु संहृता अकर्मभूमिकेति व्यवहियते, तत्क्षेत्रसम्बन्धभावात् , यथा लोके कश्चिन्मगधादिदेशात्सुराट्रान् प्रति प्रस्थितो गिरिनगरेषु निवासं कल्पयितुकामः सुराष्ट्रपर्यन्तग्रामप्राप्तः सन् समुत्पद्यमानेषु तथाविधेषु प्रयोजनेषु सौराष्ट्र इति व्यवहियते, तद्वदधिकृताऽपि, तत्र च संहृता सती काचिदन्तर्मुहूर्त जीवति ततोऽपि वा भूयोऽपि संहियते काचित्पूर्वकोट्यायुष्का यावज्जीवमपि तत्रावतिष्ठते ततो जघन्यतोऽन्तर्मुहूर्तमुक्तमुत्कर्षतो देशोना पूर्वकोटीति, आह-भरतैरावतान्यपि कर्मभूमौ वर्तन्ते तत्र |चैकान्तसुषमादौ त्रीण्यपि पल्योपमानि स्थितिरस्या भवति संहरणं च संभवति तत्कथं देशोना पूर्वकोटी भण्यते ? इति, अत्रोच्यते, कर्मकालविवक्षयाऽभिधानात् , तस्य चैतावन्मात्रत्वादिति । हैमवतहरण्यवताकर्मभूमिकमनुष्यस्त्रीणां जन्मतो जघन्येन देशोनं पल्योपमं पल्योपमासङ्खयेयभागेन न्यूनमुत्कर्षतः परिपूर्ण पल्योपमं, संहरणमधिकृत्य जघन्यतोऽन्तर्मुहूर्त्तमुत्कर्षतो देशोना पूर्वकोटी, भावना प्रागिव ।। एवं 'हरिवासरम्मए' इत्याद्यपि सूत्रत्रयं भावनीयं, नवरं हरिवर्षरम्यकयोर्जन्मतो जघन्येन द्वे पल्योपमे पल्योपमासङ्घयेय-5 भागन्यूने उत्कर्षत: परिपूर्णे द्वे पल्योपमे । देवकुरूत्तरकुरुषु जन्मतो जघन्येन त्रीणि पल्योपमानि पस्योपमासङ्ख्येयभागहीनानि उ
Jain Education
For Private sPersonal use Only
jainelibrary.org