________________
श्रीजीवा- जीवाभि० मलयगिरीयावृत्तिः
स्थितिः
त्कर्षत: परिपूर्णानि त्रीणि पल्योपमानि, अन्तरद्वीपेषु जन्मतो जघन्येन देशोनः पल्योपमासङ्खयेयभागः, कियता देशेनोनः पल्योपमा- २ प्रतिपत्तौ सङ्खयेयभाग? इति चेदत आह-पल्योपमासङ्खयेयभागेनोन:, किमुक्तं भवति ?-उत्कृष्टपल्योपमासङ्खयेयभागप्रमाणादायुषो जघन्यमायुः तिर्यक्पल्योपमासङ्खधेयभागन्यूनं, नवरमूनताहेतुः पस्योपमासङ्ख्येयो भागोऽतीव स्तोको द्रष्टव्यः, संहरणमधिकृत्य सर्वत्रापि जघन्यत उत्कर्षतश्च तावदेव प्रमाणम् । सम्प्रति देवस्त्रीवक्तव्यतामाह-अक्षरगमनिका सुगमा तात्पर्यमात्रमुच्यते-देवस्त्रीणां सामान्यतो जघन्यतः | स्थितिर्दश वर्षसहस्राणि, तानि च भवनपतिव्यन्तरीरधिकृत्य वेदितव्यानि, उत्कर्षत: पञ्चपञ्चाशत्पल्योपमानि, एतानि चेशानदेवीरधिकृत्य प्रतिपत्तव्यानि । विशेषचिन्तायां भवनवासिदेव्यः सामान्यतो दश वर्षसहस्राणि, उत्कर्षतोऽर्द्धपञ्चमानि-सार्द्धानि चत्वारि पल्योपमानि, एतानि च भवनवासिविशेषासुरकुमारदेवीरधिकृत्य, अत्रापि विशेषचिन्तायामसुरकुमारदेवीनां सामान्यतो जघन्येन दश वर्षसहस्राणि उत्कर्षतोऽर्द्धपञ्चमानि पल्योपमानि, नागकुमारभवनवासिदेवस्त्रीणां जघन्यतो दश वर्षसहस्राणि उत्कर्षतो देशोनं पल्योपमम् , एवं शेषाणां यावत्स्तनितकुमारीणां, व्यन्तरीणां जघन्यतो दश वर्षसहस्राणि उत्कर्षतोऽर्द्ध पल्योपमं, ज्योतिषस्त्रीणां जघन्येनाष्टभागपल्योपममुत्कर्षतोऽर्द्ध पल्योपमं पञ्चाशता वर्षसहस्ररभ्यधिकम् , अत्रापि विशेषचिन्तायां चन्द्रविमानवासिज्योतिषस्त्रीणां जघन्यतश्चतुर्भागमात्रं पल्योपममुत्कर्षतोऽर्द्धपल्योपमं पञ्चाशता वर्षसहस्रैरधिकं, सूर्यविमानवासिज्योतिष्कदेवीनां जघन्यतश्चतुर्भागमात्रं पल्योपममुत्कर्षतोऽर्द्धपल्योपमं वर्षशतपञ्चकाभ्यधिकं, ग्रहविमानवासिज्योतिष्कदेवीनां जघन्यतश्चतुर्भागमात्रं पल्योपमं उत्कर्षतोऽर्द्धप-14 ल्योपमं, नक्षत्रविमानज्योतिष्कदेवीनां जघन्यतश्चतुर्थभागमानं पल्योपममुत्कर्षत: सातिरेकं चतुर्थभागमानं पल्योपमं, ताराविमान-*
॥५६॥ ज्योतिष्कदेवीनां जघन्यतोऽष्टभागमात्रं पल्योपममुत्कर्षतस्तदेवाष्टभागमानं पल्योपमं सातिरेकं । सामान्यतो वैमानिकदेवस्त्रीणां जघन्यत:
-CONGRAM.COACCORMACOCKS
Jain Education
a
l
For Private & Personel Use Only
W
w
.jainelibrary.org