SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ हरप्रवहाः, अन्यथा कुण्डप्रभवाणामपि वर्षधरनितम्बस्थकुण्डप्रभवत्वेन वर्षधरप्रभवा इति वाच्यं स्यात्, कियत्यः कुण्डप्र-13॥ भवा-वर्षधरनितम्बवर्तिकुण्डनिर्गताः प्रज्ञप्ताः?, गौतम ! जम्बूद्वीपे द्वीपे चतुर्दश महानद्यो वर्षधरहदप्रभवा भरतगङ्गादयः प्रतिक्षेत्रं द्विद्विभावात् , कुण्डप्रभवाः षट्सप्ततिर्महानद्यः, तत्र शीताया उदीच्येष्वष्टसु विजयेषु शीतोदाया याम्येप्वष्टसु विजयेषु च एकैकभावेन षोडश गङ्गाः षोडश सिन्धवश्च तथा शीताया याम्येष्वष्टसु विजयेषु शीतोदाया उदीच्येध्वष्टसु विजयेषु चैकैकभावेन षोडश रक्ता रक्तावत्यश्च, एवं चतुःषष्टिः द्वादश च प्रागुक्ता अन्तर्नद्यः सर्वमीलने षट्सप्सतिरिति कुण्डप्रभवानां तु शीताशीतोदापरिवारभूतत्वेनासम्भवदपि महानदीत्वं स्वस्वविजयगतचतुर्दशसहस्रनदीपरिवारसम्पदुपेतत्वेन भाव्यं, एवमेव सपूर्वापरेण चतुर्दशषट्सप्ततिरूपसङ्ख्यामीलनेन जम्बूद्वीपे नवतिर्महानद्यो भवन्तीत्याख्यातमिति। अथैतासां चतुर्दशमहानदीना नदीपरिवारसङ्ख्यां समुद्रप्रवेश दिशं चाह-'जंबुद्दीवे' इत्यादि व्यक्तं, नवरं यद् भरतैरावतयोर्युगपग्रहणं तत्समानक्षेत्रत्वात् , भरते गङ्गा पूर्वलवणसमुद्रं सिन्धुः पश्चिमलवणसमुद्रं प्रविशति, ऐरावते च रक्ता पूर्वसमुद्रं रक्तावत्यपरसमुद्रं च, तथा 'जंबुद्दीवेत्ति निगदसिद्धं, नवरं हैमवतहरण्यवतयोः समानयुग्मिक्षेत्रत्वेन सहोक्तिः, हैमवते रोहिता पूर्व लवणं रोहितांशा पश्चिमं हिरण्यवते सुवर्णकूला पूर्व लवणं रूप्यकूला पश्चिमं एवमेव पूर्वापरमीलनेन जम्बूद्वीपे हैमवतहरण्यवतयोः क्षेत्रयोर्द्वादशसहस्रोत्तरं नदीशतसहस्रं भवत्येवमाख्यातं, अत्र शतसहस्रशब्दसाहचर्यादग्रसङ्ख्यायां द्वादशोत्तराणीत्यत्र सहस्राणि प्रतीयन्ते, अन्यथा (द्वादशाधिकत्वे अर्ध-) Jain Education Ini For Private & Personel Use Only jainelibrary.org
SR No.600088
Book TitleJambudwip Pragnapati Namak Mupangam Part_2
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages332
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy