________________
श्रीजम्बूद्वीपशान्तिचन्द्री - या वृत्तिः
॥४३०॥
पट्पञ्चाशत्सहस्राणां चतुर्गुणने सङ्ख्याशास्त्रबाधः स्यात्, दृश्यते च शब्दसाहचर्यादर्थप्रतिपत्तिर्यथा रामलक्ष्मणावित्यत्र | रामशब्देन दाशरथिर्लक्ष्मणशब्दसाहचर्यात् प्रतीयते न तु रेणुकासुत इति, तथा 'जंबुद्दीवे' इत्यादि, सुबोधं, द्वयोर्वर्षयोः सहोकौ हेतुः प्राग्वदेव, हरीति — हरिसलिला पूर्वार्णवगा हरिवर्षे हरिकान्ता चापरार्णवगा रम्यके नरकान्ता पूर्वार्णवगा | नारीकान्ता चापरार्णवगा सर्वसङ्ख्यया जम्बूद्वीपे द्वीपे हरिवर्षरम्यकवर्षयोद्धे चतुर्विंशतिसहस्राधि के सलिलाशतसहस्रे भवत | इति, षट्पञ्चाशत्सहस्राणां चतुर्गुणने एतावत एव लाभात्, अत्रापि सहस्रपरतया व्याख्यानं प्राग्वत्, तथा 'जंबुद्दीवे' इत्या| दि व्यक्तं, नवरं शीता शीतोदा चेत्यत्र चकारौ द्वयोस्तुल्यकक्षताद्योतनाथ तेन समपरिवारत्वादिकं ग्राह्यं, समुद्रप्रवेशः | शीतायाः पूर्वस्यां शीतोदायास्त्व परस्यामिति, 'व्याख्यातो विशेषप्रतिपत्ति' रित्यत्र द्वादशान्तरनद्योऽधिका ग्राह्याः, महा| विदेहनदीत्वाविशेषात् शेषाः कुण्डप्रभवनद्यश्च शीत शीतोदा परिवारनदीष्वन्तर्गता इति न सूत्रकृता सूत्रे पृथग् विवृताः । अथ मेरुतो दक्षिणस्यां कियत्यो नद्य इत्याह- 'जंबुद्दीवे दीवे मंदरपवय' इत्यादि व्यक्त, नवरं उत्तरसूत्रे एकं पण्णवतिसहस्राधिकं सलिलाशतसहस्रं, तथाहि - भरते गङ्गायाः सिन्धोश्च चतुर्द्दश २ सहस्राणि हैमवते रोहिताया रोहितांशायाश्चाष्टाविंशतिरष्टाविंशतिः सहस्राणि हरिवर्षे हरिसलिलाया हरिकान्तायाश्च षट्पञ्चाशत् २ सहस्राणि सर्वमीलने यथोक्तसङ्ख्या । | अथ मेरुत उत्तर वर्त्तिनीनां सङ्ख्यां प्रश्नयितुमाह – 'जंबुद्दीवे' इत्यादि व्यक्तं, नवरं उत्तरसूत्रे सर्वसङ्ख्या दक्षिणसूत्रवद् भाव - नीया, वर्षाणां नदीनां च नामसु विशेषः स्वयं बोध्यः, ननु मेरुतो दक्षिणोत्तरनदीसङ्ख्यामीलने सपरिवारे उत्तरदक्षिणप्र
Jain Education International
For Private & Personal Use Only
| ६ वक्षस्कारे खण्डयोज - नादिपिण्ड: सू. १२५
॥४३०॥
Wwww.jainelibrary.org