SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ eeeeeeeeeeeeeeeeer वहे शीताशीतोदे कथं न मीलिते ?, उच्यते, प्रश्नसूत्रं हि मेरुतो दक्षिणोत्तरदिग्भागवर्तिपूर्वापरसमुद्रप्रवेशरूपविशिष्टार्थविषयकं तेन न मेरुतः शुद्धपूर्वापरसमुद्रप्रवेशिन्योरनयोर्निर्वचनसूत्रेऽन्तर्भावः, यथाप्रश्नं निर्वचनदानस्य शिष्टव्यवहारात् । अथ पूर्वाभिमुखाः कियत्यो लवणोदं प्रविशन्तीत्याह-'जंबुद्दीवे दीवे' इत्यादि, जम्बूद्वीपे द्वीपे कियत्यो नद्यः पूर्वाभिमुखं लवणोदं प्रविशन्ति-कियत्यः पूर्वसमुद्रप्रवेशिन्य इत्यर्थः, इदं च प्रश्नसूत्रं केवलं नदीनां पूर्व दिग्गामित्वरूपप्रष्टव्यविषयकं तेन पूर्वस्मात् प्रश्नसूत्राद्विभिद्यते, उत्तरसूत्रे सप्त नदीलक्षाणि अष्टाविंशतिश्च सहस्राणि यावत् समुपसर्पन्ति, तद्यथा-पूर्वसूत्रे मेरुतो दक्षिणदिग्वर्तिनीनामेकं षण्णवतिसहस्राधिकं लक्षमुक्तं, तदर्द्ध पूर्वाब्धिगामीत्यागतान्यष्टानवतिः सहस्राणि एवमुदीच्यनदीनामप्यष्टानवतिः सहस्राणि शीतापरिकरनद्यश्च ५ लक्षाणि द्वात्रिंशत्सह. नाणि च सर्वपिण्डे यथोक्तं मानं । अथ पश्चिमाब्धिगामिनीनां सङ्ख्याप्रश्नार्थमाह-'जंबुद्दीवे दीवे' इत्यादि, इदं चानन्तरसूत्रवद्वाच्यं, सङ्ख्यायोजनायाः परस्परं निर्विशेषत्वात् , सम्प्रति सर्वसरित्सङ्कलनामाह-एवामेव सपुत्वावरेण'मित्यादि व्यक्तं, नवरं जम्बूद्वीपे द्वीपे पूर्वाब्धिगामिनीनामपराब्धिगामिनीनां च नदीनां संयोजने चतुर्दश लक्षाणि षट्पञ्चाशत्सहस्राणि भवन्ति इत्याख्यातं, ननु इयं सर्वसरित्सङ्ख्या केवलपरिकरनदीनां महानदीसहितानां वा तासां?, | उच्यते, महानदीसहितानामिति सम्भाव्यते, सम्भावनाबीजं तु कच्छविजयगतसिन्धुनदीवर्णनाधिकारे प्रवेशे च 'सर्व| सङ्ख्यया आत्मना सह चतुर्दशभिनंदीसहस्रैः समन्विता भवती"ति श्रीमलयगिरिकृतबृहत्क्षेत्रविचारवृत्त्यादिवचन Jain Education in For Private & Personel Use Only alljainelibrary.org
SR No.600088
Book TitleJambudwip Pragnapati Namak Mupangam Part_2
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages332
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy