SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ esese श्रीजम्बू- द्वीपशान्तिचन्द्रीया वृत्ति: ॥४३॥ मिति, श्रीरत्नशैखरसूरयस्तु स्वक्षेत्रसमासे "अडसरि महणईभो बारस अंतरणईउ सेसाओ । परिअरणईओं चउदस वक्षस्कारे लक्खा छप्पण्णसहसा य ॥१॥" त्ति महानदीनां पृथग्गणनं चक्रुरिति तत्त्वं तु बहुश्रुतगम्यं, नन्वत्र प्रत्येकमष्टावि- खण्डयोजशतिसहस्रनदीपरिवारा द्वादशान्तरनद्यः सर्वनदीसङ्कलनायां कथं न गणिताः', उच्यते, इयं सर्वसरित्सङ्ख्या चतुर्दश- नादिपिण्डः लक्षादिलक्षणा श्रीरत्नशेखरसूरिभिः स्वोपज्ञक्षेत्रसमासवृत्तौ तथा प्रतिमहानदिपरिवारमीलने स्वस्वक्षेत्रविचारसूत्रे श्रीजि सू. १२५ नभद्रगणिक्षमाश्रमणादिसूत्रकारः श्रीमलयगिर्यादिभिर्वृत्तिकारश्चान्तरनदीपरिवारासङ्ग्रहेणैवोक्ता, श्रीहरिभद्रसूरिभिस्तु 'खण्डा जोअणे'त्यादिगाथायाः सङ्घहण्यां चतुरशीतिप्रमाणा कुरुनदीरनन्तर्भाव्य तत्स्थाने इमा एव द्वादश नदीः चतुर्दशभिः२ नदीसहस्रैः सह निक्षिप्य यथोक्तसङ्ख्या पूरिता, तद्यथा-"चउदससहस्सगुणिआ अडतीस णईउ विजयमज्झिल्ला । सीआईइ णिवडंति सीओआएवि एमेव ॥१॥" कैश्चित्तु य एव विजयगतयोगङ्गासिन्ध्वोः रक्तारक्तवत्योर्वा अष्टाविंशतिसहस्रनदीलक्षणः परिवारः स एवासन्नतयोपचारेणान्तरनदीनां परिवारतयोक्त इत्यतोऽवसीयते । यदन्तरनदीपरिवारमाश्रित्य मतवैचित्र्यदर्शनादिना केनापि हेतुना प्रस्तुतसूत्रकारेणापि सर्वनदीसङ्कलनायां ता न गणिता इति, अत्रापि तत्त्वं बहुश्रुतगम्यमेव, यदि चान्तरनदीपरिवारनदीसङ्कलनापि क्रियते तदा जम्बूद्वीपे द्विनवति ॥४३१॥ सहस्राधिकाः सप्तदश लक्षा नदीनां भवन्ति, यदुक्तम्-"सुत्ते चउदसलक्खा छप्पण्णसहस्स जंबुदीवम्मि । हुंति उ8 सत्तर लक्खा बाणवइसहस्स सलिलाओ॥१॥” इति, एतेषां जम्बूद्वीपप्रज्ञप्युक्तार्थानां पिण्डके-मीलके विषयभूते । Jain Education International For Private & Personel Use Only www.jainelibrary.org
SR No.600088
Book TitleJambudwip Pragnapati Namak Mupangam Part_2
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages332
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy