SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ Jain Education लवक्षस्कारेषु षोडशसु १६ प्रत्येकं चतुष्टयभावात् ६४ गजदन्ताकृतिवक्षस्कारेषु गन्धमादनसौमनसयोः सप्त १४ मा - | ल्यवद्विद्युत्प्रभयोः नव १८ इति उभयमीलने यथोक्तसङ्ख्या, त्रीणि षडुत्तराणि वैताढ्यकूटशतानि, तत्र भरतैरावतयो - | विजयानां च वैताढ्येषु चतुस्त्रिंशति प्रत्येकं नवसम्भवादुक्तसङ्ख्यानयनं, वृत्तवैतान्येषु च कूटाभावः अत एव वैता - ढ्यसूत्रे न दीर्घपदोपादानं विशेषणस्य व्यवच्छेदकत्वात् अत्र च व्यवच्छेद्यस्याभावादिति, मेरौ नव, तानि च नन्दन| वनगतानि ग्राह्याणि न भद्रशालवनगतानि दिगूहस्तिकूटानि तेषां भूमिप्रतिष्ठितत्वेन स्वतन्त्रकूटत्वादिति, सङ्ग्रहणिगाथायां 'पद्ययकूडा ये'त्यत्र चोऽनुक्तसमुच्चये तेन चतुस्त्रिंशद् ऋषभकूटानि तथा अष्टौ जम्बूवनगतानि तावन्त्येव शा| ल्मलीवनगतानि भद्रशालवनगतानि च सर्वसङ्ख्ययाऽष्टपञ्चाशत्सङ्ख्याकानि ग्राह्याणि, ननु तर्हि एतद्गाथाविवरणसूत्रे | 'चत्तारि सत्तसहा कूडसया' इत्येवंरूपे सङ्ख्या विरोधः, उच्यते, एषां गिर्यनाधारकत्वेन स्वतन्त्रगिरित्वान्न कूटेषु गणना, अयमेवाशय ऋषभकूटसङ्ख्या सूत्र पृथक्करणेन सूत्रकृता स्वयमेव दर्शयिष्यते, यच्च प्राक् ऋषभकूटाधिकारे 'कहि णं भंते ! जंबुद्दीवे उसभकूडे णामं पचए पण्णत्ते' इति सूत्रं, तच्छिलोच्चयमात्रतापरं व्याख्येयमिति सर्वं सम्यकू, अथ तीर्थानि - 'जंबुद्दीवे' इत्यादि, प्रश्नसूत्रे तीर्थानि चत्रिणां स्वस्वक्षेत्रसीमासुरसाधनार्थं महाजलावतारणस्थानानि, उत्तरसूत्रे भरते त्रीणि तीर्थानि प्रज्ञप्तानि, तद्यथा-मागधं पूर्वस्यां गङ्गासङ्गमे समुद्रस्य वरदाम दक्षिणस्यां प्रभासं पश्चिमायां सिंधुसंगमे समुद्रस्य एवमैरावतसूत्रमपि भावनीयं, नवरं नद्यौ चात्र रक्तारक्तवत्यौ तयोः समुद्रसङ्गमे मागधप्रभासे For Private & Personal Use Only w.jainelibrary.org
SR No.600088
Book TitleJambudwip Pragnapati Namak Mupangam Part_2
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages332
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy