SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ श्रीजम्बू GORSO90900 द्वीपशान्तिचन्द्रीया वृत्तिः स.१२५ ॥४२८॥ नाय सहस्रद्वयेन भागे हृते लब्धमेकं गव्यूतं शेष धनुषां पञ्चदश शतानि पञ्चदशाधिकानि, सर्वाग्रेण जातमिदं-योजना ६वक्षस्कारे नां सप्त कोटिशतानि नवतिकोट्यधिकानि षट्पञ्चाशल्लक्षाश्चतुर्णवतिसहस्राणि शतमेकं पञ्चाशदधिकं तथा गव्यूतमेकं खण्डयोजधनुषां पञ्चदशशतानि पञ्चदशाधिकानि अङ्गुलानां षष्टिरिति । गतं योजनद्वारं, अथ वर्षाणि-'जंबुद्दीवे 'मित्यादिनादिपिण्ड: | व्यक्तं । अथ पर्वतद्वारं-'जंबुद्दीवे ण' मित्यादि प्रश्नसूत्रं व्यक्त, उत्तरसूत्रे सङ्ख्यामीलनाय किञ्चिदुच्यते-षट् वर्षधराः क्षुल्लहिमवदादयः एको मन्दरो-मेरुः एकश्चित्रकूटः एकश्च विचित्रकूटः, एतौ च यमलजातकाविव द्वौ गिरी देवकुरुवर्तिनौ, द्वौ यमकपर्वती तथैवोत्तरकुरुवर्तिनौ, द्वे काञ्चनकपर्वतशते देवकुरूत्तरकुरुवतिहददशकोभयकूलयोः प्रत्येक दशरकाञ्चनकसद्भावात् , तथा विंशतिर्वक्षस्कारपर्वताः, तत्र गजदन्ताकारा गन्धमादनादयश्चत्वारः तथा चतुःप्रकारमहाविदेहे प्रत्येकं चतुष्करसद्भावात् षोडश चित्रकूटादयः सरलाः द्वयेऽपि मिलिता यथोक्तसङ्ख्याकाः, तथा चतुस्त्रिंशद्दीर्घवैताब्या द्वात्रिंशद्विजयेषु भरतैरावतयोश्च प्रत्येकमेकैकभावात् , चत्वारो वृत्तवैताढ्याः हैमवतादिषु चतुषु वर्षेषु एकैकभावात् , 'एवामेव सपुत्वावरेणं'ति प्राग्वत्, जंबूद्वीपे द्वीपे एकोनसप्तत्यधिके द्वे पर्वतशते भवतः इत्याख्यातं मयाऽन्यैश्च तीर्थकृद्भिः। अथ कूटानि, तत्र सूत्रं-'जंबुद्दीवे ण' मित्यादि, जम्बूद्वीपे द्वीपे कियन्ति वर्षधरकूटानि इत्या ॥४२८॥ | दिप्रश्नसूत्रं व्यक्तं, उत्तरसूत्रे षट्पञ्चाशद्वर्षधरकूटानि, तथाहि-क्षुद्रहिमवतशिखरिणोः प्रत्येकमेकादश २२ महाहिमवदुक्मिणोः प्रत्येकमष्टौ १६ निषधनीलवतोः प्रत्येकं नव १८ सर्वसङ्ख्यया ५६, वक्षस्कारकूटानि षण्णवतिः, तद्यथा-सर 900Ree Jain Education International For Private & Personel Use Only www.jainelibrary.org
SR No.600088
Book TitleJambudwip Pragnapati Namak Mupangam Part_2
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages332
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy