________________
गुणितो जम्बूद्वीपगणितपदमिति, तथाहि - जम्बूद्वीपपरिधिस्तिस्रो लक्षाः षोडश सहस्राणि द्वे शते सप्तविंशत्यधिके योजनानां तथा गव्यूतत्रयं अष्टाविंशत्यधिकं शतं धनुषां त्रयोदशाङ्गुलानि एकं चार्द्धाङ्गुलं, यवादयस्तु श्रीजिन| भद्रगणिक्षमाश्रमणप्रणीत क्षेत्रविचार सूत्रवृत्त्यादौ न विवक्षिता अतो न तद्विवक्षा क्रियते, तत्र योजनराशौ पञ्चविंशतिसहस्रैर्गुणिते सप्तकोटिशतानि नवतिकोटयः षट्पञ्चाशलक्षाः पञ्चसप्ततिः सहस्राणि भवन्ति, तथा क्रोशत्रये पश्चविंशतिसहस्रगुणिते जातं पञ्चसप्ततिसहस्राणि गव्यूतानां, एषां च योजनानयनार्थं चतुर्भिर्भागे हृते लब्धान्यष्टादश | सहस्राणि सप्त शतानि पञ्चाशदधिकानि योजनानां, अस्मिंश्च सहस्रादिके पूर्वराशौ प्रक्षिप्ते जातानि ९३ सहस्राणि ७ शतानि ५० अधिकानि कोट्यादिका सङ्ख्या तु सर्वत्र तथैव, तथा धनुषामष्टाविंशे शतं पञ्चविंशतिसहस्रैर्गुण्यते जाता द्वात्रिंशलक्षा धनुषां ३२००००० अष्टाभिश्च धनुः सहस्रैर्योजनं भवति ततो योजनानयनार्थमष्टाभिः सहस्रैर्भागे | लब्धानि चत्वारि योजनशतानि अस्मिंश्च पूर्वराशौ प्रक्षिप्ते जातानि ९४ सहस्राणि शतं पञ्चाशदधिकं अङ्गुलान्यपि त्रयोदश पञ्चविंशतिसहस्रैर्गुण्यन्ते जातानि त्रीणि लक्षाणि पञ्चविंशतिसहस्राधिकानि अर्द्धाङ्गुलमपि पञ्चविंशतिसहस्रैरभ्यस्यते जातान्यर्द्धाङ्गुलानां पञ्चविंशतिसहस्राणि तेषामर्द्धे लब्धान्यङ्गुलानां द्वादश सहस्राणि पञ्चशताधिकानि तेषु पूर्वोक्ताङ्गुलराशौ प्रक्षिप्तेषु जातोऽङ्गुलराशि स्त्रीणि लक्षाणि सप्तत्रिंशत्सहस्राणि पञ्चशताधिकानि एषां धनुरानयनाय षण्णवत्या भागे हृते लब्धानि धनुषां पञ्चत्रिंशच्छतानि पञ्चदशाधिकानि शेषं षष्टिरङ्गुलानि, अस्य धनूराशेर्गव्यूतानय
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org