SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ Jain Education Inte अथ षष्ठो वक्षस्कारः ॥ ६॥ —0-f पृष्टं जम्बूद्वीपान्तर्वर्त्ति स्वरूपं, सम्प्रति तस्यैव चरमप्रदेशस्वरूपप्रश्नायाह— जंबुद्दीवस णं भंते! दीवस्स पदेसा लवणसमुदं पुट्ठा ?, हंता पुट्ठा, ते णं भंते! किं जंबुद्दीवे दीवे लवणसमुद्दे ?, गोअमा ! जंबुद्दीवे णं दीवे णो खलु लवणसमुद्दे, एवं लवणसमुद्दस्सवि परसा जंबुद्दीवे पुट्ठा भाणिअव्वा इति । जंबुद्दीवे णं भंते! जीवा उद्दात्ता २ लवणसमुद्दे पञ्चायंति ?, अत्थेगइआ पच्चायंति अत्थेगइआ नो पञ्चायंति, एवं लवणस्सवि जंबुद्दीवे दीवे णेअव्वभिति (सूत्रं १२४) 'जंबुद्दीवस्स ण'मित्यादि, जम्बूद्वीपस्य णमिति पूर्ववत् द्वीपस्य प्रदेशा लवणसमुद्रशब्दसहचाराच्चरमप्रदेशा इति व्याख्येयं अन्यथा जम्बूद्वीपमध्यवर्त्तिप्रदेशानां लवणसमुद्रस्य संस्पर्शसम्भावनाया अभावात् लवणसमुद्रं स्पृष्टाः| स्पृष्टवन्तः कर्त्तरि कप्रत्ययः, अत्र काकुपाठात् प्रश्नसूत्रावगतिः, भगवानाह - हन्ता ! इति प्रत्यवधारणे । अथ सम्प्रदा| यादिना द्वीपानन्तरीयाः समुद्राः समुद्रानन्तरीया द्वीपाः तेन ये यदनन्तरीयास्ते तत्संस्पर्शिन इति सुज्ञानेऽप्यस्मिन् प्रष्टव्येऽर्थे यत् प्रश्नविधानं तदुत्तरसूत्रे प्रश्नबीजाधानायेति तदाह - ते जम्बूद्वीपचरमप्रदेशा भदन्त ! किं जम्बूद्वीपो द्वीपः उत इति गम्यस्तेन लवणसमुद्रो वा इत्यर्थः, पृच्छतोऽयमाशयः- यद्येन स्पृष्टं तत्किञ्चित्तद्व्यपदेशं लभते किश्चित् For Private & Personal Use Only Jainelibrary.org
SR No.600088
Book TitleJambudwip Pragnapati Namak Mupangam Part_2
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages332
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy