________________
Jain Education Inter
| देवः शक्रेण यावत्पदात् 'देविंदेणं देवरण्णा एवं वृत्ते समाणे हतुट्ठचित्तमाणंदिए एवं देवो तहत्ति आणाए' इति ग्राह्यं, | विनयेन वचनं प्रतिशृणोति प्रतिश्रुत्य च जृम्भकान् देवान् तिर्यग्लोके वैतान्यद्वितीय श्रेणिवासित्वेन तिर्यग्लोकगत| निधानादिवेदिनः शब्दयति २ त्वा चैवमवादीत् शेषमनुवादसूत्रत्वात् सुबोधम्, अथास्मासु स्वस्थानं प्राप्तेषु निःसौन्दर्याः सौन्दर्याधिके भगवति मा दुष्टा दुष्टदृष्टिं निक्षिपन्त्विति तदुपायार्थमाह - 'तए ण' मित्यादि, ततो- वैश्रमणेनाज्ञाप्रत्यर्पणानन्तरं स शक्रः ३ अभियोगान् देवान् शब्दयति शब्दयित्वा चैवमवादीत् - क्षिप्रमेव भो देवानु| प्रिया ! भगवतस्तीर्थकरस्य जन्मनगरे शृङ्गाटकयावन्महापथपथेषु महता २ शब्देन उद्घोषयन्तः २ एवं वदत - हन्त ! इति प्राग्वत् शृण्वन्तु भवन्तो बहवो भवनपतिव्यन्तरज्योतिष्कवैमानिका देवाश्च देव्यश्च योऽनिर्दिष्टनामा देवानांप्रिया ! इति सम्बोधनं भवतां मध्ये तीर्थकरस्य मातुर्वोपर्य्यशुभं मनः प्रधारयति - दुष्टं सङ्कल्पयति तस्य 'आर्यकमञ्जरिकेव' आर्यको - वनस्पतिविशेषो यो लोके आजओ इति प्रसिद्धस्तस्य मञ्जरिका इव मूर्द्धा शतधा स्फुटत्वितिकृत्वा - इत्युक्त्वा घोषणं घोषयत, घोषयित्वा चैतामाज्ञप्तिकां प्रत्यर्पयत इति, अथ ते यच्चक्रुस्तदाह - 'तए ण' मित्यादि व्यक्तं अनुवादसूत्रत्वात्, अथ निगमनसूत्रमाह - 'तए ण' मिति, ततस्ते बहवो भवनपत्यादयो देवा भगवतस्तीर्थकरस्य जन्ममहिमानं कुर्वन्ति कृत्वा च सिद्धसमीहितकार्याः मङ्गलार्थं यत्रैव नन्दीश्वरवरद्वीपस्तत्रैवोपागच्छन्ति उपागत्या - | ष्टाह्निकामहामहिमाः - अष्टदिन निर्वर्त्तनीयोत्सव विशेषान् कुर्वन्ति, बहुवचनं चात्र सौधर्मेन्द्रादिभिः प्रत्येकं क्रियमाण
For Private & Personal Use Only
d jainelibrary.org