________________
| तलसम्पुटेन गृह्णाति गृहीत्वा च सिंहासनवरगतः पूर्वाभिमुखः सन्निषण्णः एक ईशानः पृष्ठतः आतपत्रं धरति || द्वावीशानावुभयोः पार्श्वयोः चामरोत्क्षेपं कुरुतः एक ईशानः पुरतः शूलपाणिस्तिष्ठति-ऊर्ध्वस्थो भवति । सम्प्रत्यव्यग्रपाणिः शको यदकरोत्तदाह-'तए णमित्यादि, ततः-ईशानेन्द्रेण भगवतः करसम्पुटे ग्रहणानन्तरं स शक्रो देवेन्द्रो देवराजा 8 आभियोग्यान देवान् शब्दयति, शब्दयित्वा च एषोऽपि तथैव-अच्युतेन्द्रवदभिषेकविषयकामाज्ञप्तिं ददाति तेऽप्याभियोग्यास्तथैव-अच्युतेन्द्राभियोग्यदेवा इवाभिषेकवस्तूपनयन्ति, अथ शक्रः किं चकारेत्याह-'तए ण'मित्यादि, ततः-18 अभिषेकसामग्र्युपनयनानन्तरं स शक्रो देवेन्द्रो देवराजा भगवतस्तीर्थकरस्य चतुर्दिशि चतुरो धवलवृषभान् विकुर्व-18 न्ति श्वेतान् श्वेतत्वमेव द्रढयति-शङ्खस्य दल-चूर्ण विमलनिर्मल:-अत्यन्तनिर्मलो यो दधिधनो-दधिपिण्डो बद्धं दधी-18 त्यर्थः गोक्षीरफेनः प्रतीतः रजतनिकरोऽपि एतेषामिव प्रकाशो येषां ते तथा तान् , 'पासाईए'त्यादि प्राग्वत् , तदनन्तरं | किमित्याह-'तए ण'मिति, ततस्तेषां चतुर्धवलवृषभानामष्टभ्यः शृङ्गेभ्योऽष्टौ तोयधारा निर्गच्छन्ति, ततस्ता अष्टौ तो-12 यधारा ऊर्ध्व विहायसि उत्पतन्ति-ऊर्ध्व चलन्ति, उत्पत्य च एकतो मिलन्ति मिलित्वा च भगवतस्तीर्थकरस्य मूर्ध्निर निपतन्ति । अथ शक्रः किं कृतवानित्याह-'तए ण' मित्यादि, ततः स शक्रो देवेन्द्रो देवराजा चतुरशीत्या सामानिकसहस्रेस्त्रयस्त्रिंशता त्रायस्त्रिंशकैर्यावत् सम्परिवृतस्तैः स्वाभाविकवैकुर्विककलशैर्महता तीर्थकराभिषेकेणाभिषिञ्चति इत्या| दिसूत्रोक्तोऽभिषेकविधिः शक्रस्याच्युतेन्द्रवदस्तीति लाघवमाह-एतस्यापि तथैवाभिषेको भणितव्यः, कियदन्त इत्याह
Jain Education Intematy
For Private Personal use only
www.jainelibrary.org