________________
धानोत्तरीयरूपं निवासयति-परिधापयतीति कृत्वा च यावत्करणात् 'सुमिणदामं पिणद्धावेइ' इति ग्राह्य, नाव्यविधिमु| पदर्शयति उपदयं च अच्छैः श्लक्ष्णैः रजतमयैः अच्छरसतंडुलैः भगवतः स्वामिनः पुरतोऽष्ट अष्टमङ्गलकानि आलिखति, तद्यथा-दप्पणेति पद्यं सुगम, मङ्गलालेखनोत्तरकृत्यमाह-लिहिऊण'त्ति, अनन्तरोक्तान्यष्टमङ्गलानि लिखित्वा करोत्युपचारमित्याद्यारभ्य कडुच्छुकग्रहणपर्यन्तं सूत्रं चक्ररत्नपूजाधिकारलिखितव्याख्यातो व्याख्येयं, ततः प्रयतः सन् यथा बालभट्टारकस्य धूपधूमाकुले अक्षिणी न भवतस्तथा प्रयत्नवान् धूपं दत्त्वा जिनवरेन्द्राय, सूत्रे षष्ठी आषत्वात्, अङ्गपूजार्थं प्रत्यासेदुषा मया निरुद्धो भगवदर्शनमार्गोऽतोऽहं मा परेषा दर्शनामृतपानविघ्नकारी स्यामिति सप्ताष्टानि पदान्यपसृत्य दशाङ्गुलिकं मस्तकेऽञ्जलिं कृत्वा प्रयतो-यथास्थानमुदात्तादिस्वरोच्चारेषु प्रयत्नवानष्टशतैः-अष्टोत्तरशतप्रमाविशुद्धेन ग्रन्थेन-पाठेन युक्तैर्महावृत्तः-महाकाव्यैर्यद्वा महाचरित्रैरपुनरुक्कैः अर्थयुक्तैः-चमत्कारिव्यङ्गययुक्तैः संस्तौति | संस्तुत्य च वामं जानु अञ्चति-उत्पाटयति, अञ्चित्वा च यावत्पदात् 'दाहिणं जाणुंधरणिअलंसि निवाडेई' इति ग्राह्यम् , अत्र व्याख्या प्राग्वत्, करतलपरिगृहीतं मस्तकेऽञ्जलिं कृत्वा एवं-वक्ष्यमाणमवादीत्, यदवादीत्तदाह- णमोऽत्थु ते सिद्धबुद्ध' इत्यादि, नमोऽस्तु ते-तुभ्यं हे सिद्ध एवं बुद्ध इत्यादिपदानि सम्बन्धनीयानि, तत्र हे बुद्ध!-ज्ञाततत्त्व! हे नीरजाः !-कर्मरजोरहित ! हे श्रमण !-तपस्विन् ! हे समाहित-अनाकुलचित्त ! हे समाप्त! कृतकृत्यत्वात् अथवा सम्यक् प्रकारेणाप्त! अविसंवादिवचनत्वात् हे समयोगिन् ! कुशलमनोवाकाययोगित्वात् शल्यकर्तन निर्भय नीरागद्वेष
श्रीजम्बू. १ Jan Educationa l
For Private
Personal Use Only