________________
लुगुलायित-गजवद् गजि विदधाति रथघनघनायितं-रथवत् चीत्कुर्वन्ति, गुलुगुलुघनघन इत्यनुकरणशब्दौ, अप्येककाः हयहेषितादीनि त्रीण्यपि कुर्वन्ति, अप्येककाः उच्छोलंति-अग्रतोमुखा चपेटां ददति, अप्येककाः पच्छोलंति-पृष्ठतोमुखां| चपेटां ददति, अप्येककाः त्रिपदी मल्ल इव रङ्गभूमौ त्रिपदी छिन्दन्ति, पाददईरक-पादेन भूम्यास्फोटनरूपं कुर्वन्ति, भूमिचपेटां ददति-करेण भूमिमानन्ति, अप्येककाः महता २ शब्देन रावयन्ति-शब्दं कुर्वन्ति, एवमुक्तप्रकारेण संयोगा अपि-द्वित्रिपदमेलका अपि विभाषितव्याः-भणितव्याः, कोऽर्थः?-केचित् उच्छोलनादिद्विकमपि कुर्वन्ति, तथा केचित् त्रिक चतुष्कं पञ्चकं पटुं च कुर्वन्ति, अप्येककाः हक्कारयन्ति-हक्कां ददति एवं पूत्कुर्वन्ति थक्कारयन्ति-थक्कथक्कमित्येवं शब्द कुर्वन्ति अवपतन्ति-नीचैः पतन्ति उत्पतन्ति-ऊर्चीभवन्ति तथा परिपतन्ति-तिर्यग्निपतन्ति ज्वलन्ति-ज्वालारूपा | भवन्ति भास्वराग्नितां प्रतिपद्यन्त इत्यर्थः, तपन्ति-मन्दाङ्गाररूपता प्रतिपद्यन्ते, प्रतपन्ति-दीप्ताङ्गारतां प्रतिपद्यन्ते। गर्जन्ति-गर्जारवं कुर्वन्ति विद्युतं कुर्वन्ति वर्षन्ति च, अत्रापि संयोगा भणितव्याः, 'अप्पे० देवानां वातस्येवोत्कलिका-भ्रमविशेषस्तां कुर्वन्ति, एवं देवानां कहकहक-प्रमोदभरजनितकोलाहलं कुर्वन्ति अप्पे० दुहुदुहुगं कुर्वन्ति अनु-! करणमेतत् , अप्पे० अधरलम्बनमुखव्यादाननेत्रस्फाटनादिना विकृतानि-भयानकानि भूतादिरूपाणि विकुर्वित्वा प्रनृ-18 त्यन्ति, एवमादि विभाषेत यथा विजयदेवस्य, कियत्पर्यन्तमित्याह-यावत् सर्वतः समन्तात् आधाति-ईषद्धावति परिधावन्ति-प्रकर्षेण धापन्ति, यावत्करणात अप्पेगइआ चेलुक्खेवं करेंति, अप्पेगइआ वंदणकलसहत्थगया अप्पेगइ
Jain Education Intel
For Private & Personel Use Only
IPLjainelibrary.org