SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ श्रीजम्बूद्वीपशान्तिचन्द्री - या वृत्तिः ॥४१८ ॥ Jain Education | कुर्वन्ति तच्चरिताभिनयात्मकमुपदर्शयन्ति, यद्यप्यत्राञ्चितरिभितारभटभसोलेषु चतुर्षु मूलभेदेषु गृहीतेषु साभिनयना| व्यमात्रसङ्ग्रहः स्यात् तथापि क्वचिदेकैकेनाभिनयेन क्वचिदभिनयसमुदायेन क्वचिच्चाभिनयविशेषेणान्तरकरणात् सर्व| प्रसिद्धद्वात्रिंशन्नाटकसङ्ख्या व्यवहारसंरक्षणार्थं द्वात्रिंशद्भेदा दर्शिताः । अथाभिनयशून्यमपि नाटकं भवतीति तत् दर्शयितु| माह-'अप्पेगइआ उप्पय' इत्यादि, अध्येकका उत्पातः - आकाशे उल्ललनं निपातः - तस्मादवपतनं उत्पातपूर्वी निपातो यस्मिन् तदुत्पातनिपातं, एवं निपातोत्पातं, सञ्कुचितप्रसारितं प्राग्वत्, यावत्पदात् 'रिआरिअ'मिति ग्राह्यं, तत्र रिअं - | गमनं रङ्गभूमेर्निष्क्रमणं आरिअं - पुनस्तत्रागमनं भ्रान्तसम्भ्रान्तं तु अनन्तरोक्चैकत्रिंशत्तमनाटके व्याख्यातमिति ततो ग्राह्यं, इदं च पूर्वोक्तचतुर्विधद्वात्रिंशद्विधनाव्येभ्यो विलक्षणं सर्वाभिनयशून्यं गात्रविक्षेपमात्रं विवाहाभ्युदयादावुप| योगि सामान्यतो नर्त्तनं भरतादिसङ्गीतेषु नृत्तमित्युक्तं । अथोक्तमेव नाव्यं प्रकारद्वयेन सङ्ग्रहीतुमाह-'अप्पेगइआ तंडवेंति अप्पेगइआ लासेंति'त्ति, अप्येककास्ताण्डवं नाम नाटकं कुर्वन्ति, तच्चोद्धतैः करणैरङ्गहारैरभिनयैश्च निर्वयं, | अत एवारभटीवृत्तिप्रधानं नाव्यं, अथ यथा वालस्वामिपादानां देवाः कुतूहलमुपदर्शयन्ति तथाह - 'अप्पेगइआ पीर्णे| ति' इत्यादि, अप्येकका देवाः पीनयन्ति-स्वं स्थूलीकुर्वन्ति, 'एव' मित्यप्येकका बूत्कारयन्ति-वूत्कारं कुर्वन्ति आस्फोट| यन्ति - उपविशन्तः पुताभ्यां भूम्यादिकमाघ्नन्ति वल्गन्ति मल्लवद्वाहुभ्यां परस्परं संप्रलगन्ति सिंहनादं नदन्ति - कुर्व - | न्ति अप्येककाः सर्वाणि - पीनत्वादीनि क्रमेण कुर्वन्ति, अप्येकका हयहेषितं - हेषारवं कुर्वन्ति, 'एव' मित्यप्येककाः हस्तिगु For Private & Personal Use Only ५वक्षस्कारे जन्ममहे अच्युता भियोगः सू. १२१ ॥४१८॥ www.jainelibrary.org
SR No.600088
Book TitleJambudwip Pragnapati Namak Mupangam Part_2
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages332
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy