________________
श्रीजम्बूद्वीपशान्विचन्द्री - या वृत्तिः
॥४१७॥
Jain Education Int
नाट्यं २०, अथैकविंशतितमं - पद्मनागाशोकचम्पकचूतवनवासन्ती कुन्दा तिमुक्तकश्यामलताप्रविभक्तिकं लताप्रविभक्तिकं नाम नाट्यं, इह येषां वनस्पतिकायिकानां स्कन्धप्रदेशविवक्षितोर्ध्वगतैकशाखा व्यतिरेकेणान्यत् शाखान्तरं परिस्थूरं न निर्गच्छति ते लता विज्ञेयास्ते च पद्मादय इति पद्मलतादिपदानामर्थः प्राग्वत्, एता यथा मारुतेरिता नृत्यन्ति तदभिनयात्मकं लताप्रविभक्तिकनाम नाट्यं २१, अथ द्वाविंशतितमं - द्रुतनाम नाव्यं तत्र द्रुतमिति - शीघ्रं गीतवाद्यशब्दयोर्यमकसमकप्रपातेन पादतलशब्दस्यापि समकालमेव निपातो यत्र तत् द्रुतं नाव्यं २२, अथ त्रयोविंशतितमं - विलम्बितं | नाम नाट्यं, यत्र विलम्बिते - गीतशब्दे स्त्ररघोलनाप्रकारेण यतिभेदेन विश्रान्ते तथैव वाद्यशब्देऽपि यतितालरूपेण वाद्यमाने तदनुयायिना पादसञ्चारेण नर्त्तनं तद्विलम्बितं नाम नाव्यं २३, अथ चतुर्विंशतितमं - द्रुतविलम्बितं नाम नाट्यं यथोक्तप्रकारद्वयेन नर्त्तनं २४, अथ पञ्चविंशतितमं - अञ्चितं नाट्यं, अञ्चितः - पुष्पाद्यलङ्कारैः पूजितस्तदीयं तदभिनय| पूर्वकं नाव्यमप्यश्चितमुच्यते अनेन कौशिकीवृत्तिप्रधानाहाय्र्य्याभिनयपूर्वकं नाव्यं सूचितं २५, अथ षडूविंशतितमं रिम्भितं नाम नाट्यं तच्च मृदुपदसञ्चाररूपमिति वृद्धाः, अथवा 'रेभृङ्ग शब्दे' इत्यस्य धातोः कप्रत्यये रेभितं -कलस्वरेण गीतोद्गातृत्वं अनेन वाचिकाभिनययुक्तं भारतीवृत्तिप्रधानं नाट्यमभाणि २६, अथ सप्तविंशतितमं अश्चितरिभितं नाम नाव्यं यत्रानन्तरोक्तमभिनयद्वय मवतरति तत् २७, अथाष्टाविंशतितममारभटं नाम नाट्यं, आरभटाः| सोत्साहाः सुभटास्तेषामिदमारभटं, अयमर्थः - महाभटानां स्कन्धास्फालन हृदयोल्वणनादिका या उद्धतवृत्तिस्तदभिनय
For Private & Personal Use Only
५ वक्षस्कारे जन्ममहे
अच्युताभियोगः
सू. १२१
॥४१७॥
w.jainelibrary.org