________________
अथ त्रयोदशं-नन्दाचम्पाप्रविभक्तिनाम नाव्यं, नन्दा-नन्दाभिधानाः शाश्वत्यः पुष्करिण्यस्तासु देवानां जलक्रीडाजलजकुसुमावचयनमन्तरणमाप्लवनमित्याद्यभिनयनं नन्दाप्रविभक्ति तथा चम्पानाम महाराजधानी उपलक्षणं चैतत् तेन कोशलाविशालादिराजधानीपरिग्रहः तासां च परिखासौधप्रासादचतुष्पदाद्यभिनयनं चम्पाप्रविभक्ति १३, अथ चतुर्दशंमत्स्याण्डकमकराण्डकजारमारप्रविभक्तिनाम नाट्यं, एतत्तु पूर्व व्याख्यातमेव, अत्रैषां चतुर्णामभिनयनं पृथगुक्तं तत्र तु व्यामिश्रितमिति भेदः १४, अथ पञ्चदशं-कखगघड इति कवर्गप्रविभक्तिकं तत्र ककाराकारेणाभिनयदर्शनं ककार. प्रविभक्ति, कोऽर्थः-तथा नाम ते नटा नृत्यन्ति यथा ककाराकारोऽभिव्यज्यते एवं खकारगकारघकारङकारप्रविभक्तयो । वाच्याः, एतच्च कवर्गप्रविभक्तिकं नाट्यं, यद्यपि लिपीनां वैचित्र्येण ककाराद्याकारवैचित्र्यात प्रस्तुतनाख्यास्याप्यनैयत्यप्रसङ्गस्तथापि कवर्गीयजातीयत्वेन विशेषणान्नात्र दोषः, एवं चकारप्रविभक्तिजातीयमित्यादि बोध्यं, अथवा ककारशब्दोघट्टनेन चचपुटचाचपुटादौ कंकांकिकीं इत्यादिवाचिकाभिनयस्य प्रवृत्त्या नाट्यं ककारप्रविभक्ति, एवं कादिडन
न्तानां शब्दानामादातृत्वेन ककारखकारगकारघकारडकारप्रविभक्तिकं नाट्यं, एवं चवर्गप्रविभक्त्यादिष्वपि वाच्यं १५, 18 अथ षोडशं-चछजझञप्रविभक्तिकं १६, अथ सप्तदशं-टठडढणप्रविभक्तिकं १७, अथाष्टादशं-तथदधनप्रविभक्तिकं १८,
अथैकोनविंशतितम-पफवभमप्रविभक्तिकं १९ अथ विंशतितम-अशोकाम्रजम्बूकोशम्बपल्लवप्रविभक्तिकं अशोकादयो| वृक्षविशेषास्तेषां पल्लवा-नवकिसलयानि ततस्ते यथा मन्दमारुतेरिता नृत्यन्ति तदभिनयात्मकं पल्लवप्रविभक्तिकं नाम
Jain Education Intel
For Private & Personel Use Only
ainelibrary.org