________________
Jain Education Inter
द्विधातश्चक्रवालं-द्वयोः परस्पराभिमुखदिशोज्ञेयं, तथा 'चक्रार्द्धचक्रवालं' चक्रस्य रथाङ्गस्यार्द्धं तद्रूपं यच्चक्रवालं - मण्डलं तदाकारेण नर्त्तनं अर्द्धमण्डलाकारेणेत्यर्थः, तदभि
नयं नाम नाटकं, एकतोवक्रादीनां क्रमेण स्थापना यथा
<<>***<
इदं च नटानां नर्त्तने संस्थानविशेषप्रधानं नाम नाटकं ४, अथ पञ्चमं - चन्द्रावलिप्रविभक्तिसूर्यावलिप्रविभक्तिवलयतारा| हंसैकमुक्ताकनकरलावलिप्रविभक्त्यभिनयात्मकमावलिप्रविभक्तिनामकं तत्र चन्द्राणामावलिः - श्रेणिस्तस्याः प्रविभक्तिःविच्छित्ती रचना विशेषस्तदभिनयात्मकं, एवं सूर्यावलिप्रविभक्त्यभिनयात्मकं, तथा वलयादिरत्नान्तेषु पदेषु आवलि - | शब्दो योज्यस्तेन वलयावलिप्रविभक्त्यादि, अयमर्थः - पतिस्थितानां रजतस्थालहस्तानां भ्रमरपरायणानां नटानां नाट्यं, | एवं वलयहस्तानां वलयनाट्यं, एवं वर्त्तुलकहस्तगतानां तारावलिनाव्यं, अनयैव युक्त्या तत्सदृशवस्तुदर्शनेन अचिन्त्य - | त्वाद्वा वैक्रियशक्तेस्तद्वस्तुदर्शनेन तत्तदभिनयकरणं तत्तन्नामकं नाव्यं ज्ञेयं, एतच्चावलिकाबद्धमित्यावलिकाप्रविभक्तिनाम नाव्यं ५, अथ षष्ठं चन्द्रसूर्योद्गमनप्रविभक्तिकृतमुद्गमनप्रविभक्ति चन्द्रसूर्ययोरुद्गमनं - उदयनं तत्प्रविभक्ती - | रचना तदभिनयगर्भं यथा उदये सूर्यचन्द्रयोर्मण्डलमरुणं प्राच्यां चारुणः प्रकाशस्तथा यत्राभिनीयते तदुद्गमनप्रविभक्ति ६, अथ सप्तमं - चन्द्रसूर्यागमनप्रविभक्ति चन्द्रस्य सविमानस्यागमनं - आकाशादवतरणं तस्य प्रविभक्तिर्यत्र नाव्येऽभिनयेन दर्शनं, एवं सूर्यागमनप्रविभक्ति ७, अथाष्टमं - चन्द्रसूर्यावरणप्रविभक्तियुक्तमावरणप्रविभक्ति, यथा हि
For Private & Personal Use Only
jalnelibrary.org