________________
अनुवृत्ताः श्रेणिस्वस्तिकाः प्रश्रेणिस्वस्तिकाः, अत्र प्रशब्दोऽनुवृत्तार्थे यथा प्रशिष्यः प्रपुत्र इत्यादौ, अयमर्थः-मुख्यस्यैकस्य स्वस्तिकस्य प्रतिशाखं गता अन्ये स्वस्तिका इत्यर्थः, एतेन प्रथमनाट्यगतस्वस्तिकनाट्याद् भेदो दर्शितः, तदभि| नयेन नर्त्तनं, तथा पुष्यमाणः-पुष्टीभवन् तदभिनयेन नृत्यं, यथा हि पुष्टो गच्छन् जल्पन श्वसिति बहु बहु प्रस्विद्यति | दारुहस्तप्रायौ स्वहस्तावतिमेदस्विनौ चालयन २ सभासदामुपहासपात्रं भवति तथाऽभिनयो यत्र नाव्ये तत्पुष्यमाण| नाट्यं, एतदेवोत्तरसूत्रकारो 'अप्पेगइआ पीणेती'ति सूत्रेण स्वयमेव वक्ष्यति, वर्द्धमानकः-स्कन्धाधिरूढः पुरुषस्तदभि-| | नयगर्भितं नाव्यं वर्द्धमानकनाय्यं, एतेन प्रथमनाव्यगतवर्द्धमाननाच्या दो दर्शितः, मत्स्यानामण्डकं मत्स्याण्डकं मत्स्या हि अण्डाजायन्ते तदाकारकरणेन यन्नर्तनं तन्मत्स्याण्डकनाट्यं, एवं मकराण्डकमपि, न हि यथाकामविकुविणां देवानां किञ्चिदसाध्यं नाट्येन चानभिनेतव्यं येन तदभिनयो न सम्भवतीति, मत्स्यकाण्डपाठे तु मत्स्यकाण्ड| मत्स्यवृन्दं, तद्धि सजातीयैः सह मिलितमेव जलाशये चलति, सङ्गचारित्वात् , तथा यत्र नटोऽन्यनटैः सह सङ्गतो रङ्गभूमों प्रविशति ततो वा नियोति तन्मत्स्यकाण्डनाट्यम, एवं मकरकाण्डपाठे मकरवृन्दं वाच्यं, तद्धि यथा विकृ-15 तरूपत्वेनातीव द्रष्ट्रणां त्रासकृद् भवति तथा यन्नाव्यं तदाकारदर्शनेन भयानकं स्यात् तद्भयानकरसप्रधानं मकरकाण्ड नाम नाटकं, तथा जारनाटकं जारः-उपपतिःस च यथा स्त्रीभिः अतिरहस्येव रक्ष्यते तद्वद्यत्र मूलवस्तुतिरोधानात्तत्तदिन्द्रजालाविभावनेन सभासदा मनस्यन्यदेवावतार्यते तज्जारनामक नाट्यं, तथा मारनाटकं मार:-कामस्तदुद्दीपक नाटक
श्रीजम्बू. ७० Jain Educat
nintent
For Private & Personal Use Only
19
ainelibrary.org