________________
श्रीजम्बूद्वीपशान्तिचन्द्रीया वृत्तिः
॥४१४॥
अप्येककाः चतुर्विध नाट्यं नृत्यन्ति, तद्यथा-अश्चितं द्रुतं आरभदं भसोलमिति, अप्येककाश्चतुर्विधमभिनयमभिनयन्ति, ५वक्षस्कारे तद्यथा-दान्तिकं प्रातिश्रुतिकं सामान्यतो विनिपातिकं लोकमध्यावसानिकमिति, एते नाट्य विधयोऽभिनयविधयश्च । जन्ममहे भरतादिसङ्गीतशास्त्रज्ञेभ्योऽवसेयाः, अप्येकका द्वात्रिंशद्विधं अष्टमाङ्गलिक्यादिकं दिव्यं नाट्यविधिमुपदर्शयन्ति, स च अच्युता
भियोगः येन क्रमेण भगवतो वर्द्धमानस्वामिनः पुरतः सूर्याभदेवेन भावितो-राजप्रश्नीयोपाङ्गे दर्शितस्तेन क्रमेणोपदय॑ते, तत्र
क्रमणापदश्यत, तत्र सू. १२१ प्रारिप्सितमहानाट्यरूपमङ्गल्यवस्तुनिर्विघ्नसिद्ध्यर्थमादौमङ्गल्यनाट्यं, तथाहि-स्वस्तिकश्रीवत्सनन्द्यावर्त्तवर्द्धमानकभद्रासनकलशमत्स्यदर्पणरूपाष्टमाङ्गलिक्यभक्तिचित्रं, अत्राष्टपदानां व्याख्या प्राग्वत्, नवरं तेषां भत्त्या-विच्छित्त्या चित्रं-आ-11 लेखनं तत्तदाकाराविर्भावना यत्र तत्तथा तदुपदर्शयन्तीत्यर्थः, अयमर्थः-यथा हि चित्रकर्मणि सर्वे जगद्वतिनो भावाश्चित्रयित्वा दर्यन्ते तथा तेऽभिनयविषयीकृत्य नाट्येऽपि,अभिनयः-चतुर्भिराङ्गिकवाचिकसात्त्विकाहार्यभेदैः समुदितैरसमुदितैर्वाऽभिनेतव्यवस्तुभावप्रकटनं, प्रस्तुते चाङ्गिकेन नाट्यकर्तृणां तत्तन्मङ्गलाकारतयाऽवस्थानं हस्तादिना तत्तदाकारदर्शनं | | वा वाचिकेन प्रबन्धादौ तत्तन्मङ्गलशब्दोच्चारणं सभासदां मनसि रक्तिपूर्वक तत्तन्मङ्गलस्वरूपाविर्भावनं मङ्गलनाव्यमिति १, अथ द्वितीयं नाट्यं, आवर्तप्रत्यावर्त्तश्रेणिप्रश्रेणिस्वस्तिकपुष्यमाणवर्द्धमानकमत्स्याण्डकमकराण्डकजारमारपु
॥४१४॥ प्पावलिपद्मपत्रसागरतरङ्गवासन्तीलतापद्मलताभक्तिचित्रं, तत्र सृष्टिक्रमेण भ्रमभ्रमरिकादानैर्नर्त्तनमावर्तस्तद्विपरीतक्रमेण भ्रमरिकादानैर्नर्त्तनं प्रत्यावर्त्तः श्रेण्या-पवत्या स्वस्तिकाः श्रेणिस्वस्तिकाः, ते चैकपतिगता अपि स्युरिति
reseseseeeeeeeeeeeeeeeeeeEEL
Jain Education inte
For Private & Personel Use Only
jainelibrary.org